SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ शुभयोगे आज्ञायासहकारित्वप्रद० उपदेशपदार गुरुकश्च गरीयानेव इह शुभयोगे प्रवृत्तेः तत्तक्रियोपयोगरूपो ज्ञेयः । केन हेतुनेत्याह-सहकारिगुरुकभावेन । एतमहाग्रंथ देव दर्शयति-तीर्थकराज्ञा भगवदादेशरूपा नियमादवश्यं भावादत्र शुभयोगे सहकारिणी सहायभूता येन कारणेनवर्त्तत इति ॥४७२।। बोसो उ कम्मजो च्चिय ता तुच्छो सो इमंतु अहिगिच्च । लेसो वि अग्गिणो डहइ हंदि पयरंपि हु तणाणं ॥४७३॥ ।।४८४|| | दोषस्तु ऋषिघातादिः पुनः कर्मज एव जीवस्वरूपविलक्षणकषायादिकर्मोद्भव एव, ततस्तुच्छः फल्गुरूपः स दोषः, पुनस्तुशब्दस्य पुनःशब्दार्थस्येह योजनात्, इमां सर्वज्ञाज्ञामधिकृत्यापेक्ष्य । अत्र प्रतिवस्तूपमालक्षणं दृष्टान्तमाह-लेशोप्यग्नेः, किं पुनर्बहुरसावित्यपिशब्दार्थः, दहपि भस्मभावमानयति व्रातमपि हु तृणानां, कि पुनः स्तोकानि तानीत्यपिहुशब्दार्थः ॥४७३॥ ___कथमित्याह ;-- . अणुकूलपवणजोगा ण तु तस्विरहम्मि सिद्धमेयं तु । भावो उ इहं अग्गी आणा पवणो जहा भणिओ ॥४७४।। ___अनुकूलपवनयोगाद् दाह्यतृणाभिमुखप्रवृत्तपवनसम्बन्धात् , न पुनस्तद्विरहे, सिद्धं प्रतीतमेतत् त्विदं पुनः । अथ ( दृष्टान्तयोजनामाह-भावः प्रायश्चित्तप्रतिपत्त्यादिपरिणामरूपः, तुः पादपूरणार्थः, इह दोषतृणदहनेऽग्निरनलः, आज्ञा पवनो यथा भणितो भावाग्निसाहाय्यकारी ।।४७४।। नन्वाज्ञापवनयोवृहदन्तरत्वात् कथं दृष्टान्तदान्तिकभाव इत्याशंक्याह; ॥४८४॥
SR No.600269
Book TitleUpdeshpad Mahagranth Satik Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1991
Total Pages448
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy