________________
||४८३।।
प्रतिविधीयमानं निष्फलीभावमाप्नोतीति ।।४६९॥ एए पउंजिऊणं सम्मं निज्जरइ अइबहूयंपि । दोसविसमप्पमत्तो साहू इयरोव्व बुद्धिजुओ ॥४७०॥
एतानाशैषणीयाभिग्रहान प्रयुज्य सम्यग् अविपरीतरूपतया निर्जरयति परिशाटयति अतिप्रभूतमप्यसंख्यातभवोपात्ततया प्रचुरमपि दोषविषमप्रमत्तः सर्वातिचारपरिहारवान् साधुर्यतिः । दृष्टान्तमाह-इतर इव स्थावरादिविषवेगव्याकलकलेवर इव नरो बुद्धियुतो विषपरिणामदारुणभावदर्शी मंत्रादिसम्यगप्रयोगवान् इंतरविषमिति ।।४७०।।
एतदेव विस्तरतो भावयति;-- कम्म जोगनिमित्तं बज्मइ बंधद्विती कसायवसा। सुहजोयम्मी अकसायभावओऽवेइ तं खिप्पं ॥४७१।। ___कर्म ज्ञानावरणादि योगनिमित्तम्, इह योगो मनोवाक्कायव्यापारः । यथोक्तम्--"मणसा वाया काएण वावि जुत्तस्स विरियपरिणामो । जीवस्स अप्पणिज्जो स जोगसन्नो जिणक्खाओ ॥१॥" ततो योगा निमित्तं यस्य तत् तथा बध्यते संगृह्यते । तस्य च बन्धस्य बन्धस्थितिबन्धावस्थानकालो जघन्यमध्यमोत्कृष्टभेदभिन्नः कषायवशात | तथापकषायपारतंत्र्यात् । यदि नामैवं ततः किमित्याह-शुभयोगे प्रत्युपेक्षणादिर पे साधुजनयोग्ये क्रियमाणेऽकषायभावतः कषायपारतंत्र्यवैकल्यादपैति नश्यति तत् कर्म क्षिप्रं झगिति तैलवत्तिक्षयात् प्रदीप इवेति ॥४७१।। ___ अत्रोपपत्तिमाह;-- गरुओ य इहं भावो णेओ सहगारिगरुयभावेण । तित्थगराणा णियमा एत्थं सहगारिणी जेण ॥४७२।।