SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ अपराधपश्चात्तापेलाभसाम र्थ्यम्. उपदेशपदार पन्नः, न पनरितरस्य यमुनराजर्षेस्ततक्षणमेव प्रतिपन्नोदग्रप्रायश्चित्तस्य । यदि नामैवं ततः किमित्याह-कृतप्रतीकार- महाप्रथा श्व.यं दोषलवो न फलति न विपच्यते । विषं स्थावरादिभेदभिन्नमत्रार्थे आहरणं दृष्टान्तः ।।४६७।। तदेव भावयति ; मारइ विसलेसोवि हु अकयपडीयार मो णउ बहुपि । कयपडियारं तं. चिय सिद्धमिणं हंत लाएवि ।।४६८।।। ।।४८२ मारयति च्युतजीवितं करोति विषलेशोऽपि हु, किं पुनः प्रभूतं तदित्यपिहशब्दार्थः, 'अकयपडियार'त्ति अकृतप्रतीकारोऽविहितमंत्रतत्रप्रतिविधानो 'मा' इति पूर्ववत् । न तु न पुनर्बह्वपि कृतप्रतीकारं तदेव विषं मारयति । सिद्ध प्रतीतमिदं हन्त लोकेऽपि पृथग्जने, कि पुनः शास्त्रे, इत्यपिशब्दार्थः ।।४६८।। प्रतीकारमेव भावयति ;-- मंतागयरयणाणं सम्मपओगो विसम्मि पडियारा। आणेसणिज्जभिग्गहरूवा एते उ दोसविसे ॥४६९।। मंत्रा गारुडशास्त्रप्रसिद्धाः, अगदा औषधानि यथा--"मरिचं निम्बबीजानि सैन्धवं मधुना सह । घृतपीतोऽगदो हन्ति विषं स्थावरजङ्गमम्" ॥१रत्नानि सर्पशिखामणिप्रभृतीनि । ततस्तेषां मंत्रागदरत्नानां सम्यक् प्रयोगो यथावद् विनियोजनं विषे प्रतोकाराः । तथा, आज्ञा सर्वविद्वचनोपयोगरूपा, एषणीयमाधाकर्मादिदोषविकलमन्नपानवस्त्रपात्रादि, अभिग्रहा द्रव्यक्षेत्रकालरूपाः, ततस्ते रूपं येषां त आशेषणीयाभिग्रहरूपा एते तु प्रतीकाराः सम्यक् प्रयुक्ता दोषविषे विज्ञेयाः। यथा हि मंत्रादिभिनिगृह्यमाणं विषं निष्फलीभवति तथा षणाभिग्रहमन्त्रागदरत्नसमानैर्दोषविष ॥४८२।।
SR No.600269
Book TitleUpdeshpad Mahagranth Satik Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1991
Total Pages448
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy