________________
॥४८१||
ज्या सर्वसावद्ययोगविरहलक्षणा तेन प्रतिपन्ना ॥४६३॥६॥
प्रतिपन्नायां च तस्यां पश्चात्तापातिशयात् तेनाभिग्रहो गृहीतो यथा भोजनकालाद् अर्वाक् स्मृतेऽपराधे नो नैव तद्दिने ? मुजे, दरभुक्तेऽप्यर्द्धभुक्तेऽपि सति यदि स्मरामि तदा एवमेव न भुञ्ज इत्यर्थः। एवं गृहीताभिग्रहेण तेन भगवता दिवसमप्येकमपि च दिवसमित्यर्थः, किलेत्याप्तप्रवादसूचनार्थः, न भुक्तम् , अभिग्रहस्य नित्यमेवानुस्मरणात् ॥४६४।।७।।
आराधना आलोचना व्रतोच्चारादिका पण्डितमरणरूपा जाता। कालगतः सन् सुरेषु वैमानिकेषूत्पन्नः । उपसंहरनाह-एवममुना प्रक्रमेणाभिग्रहो यमुनराजर्षिगृहीताभिग्रहवद् इह प्रवचने कल्याणनिबन्धनं ज्ञेय इति ॥४६५॥८॥
अथ परमतमाशंकते;-- जइ एवं रिसिघाएवि हंत आराहणा इमस्सेसा । कह खुड्डया इयाणं दोसलवाणंतसंसारो ? ॥४६६।। IN यदि चेदेवमाकुट्टिकया ऋषिघातेऽपि दण्डनामानगारमारणेऽपि बोधिलाभमूलाग्नीकृते सति । 'हंत' इति कोमलाम- 8
त्रणे । आराधना परिशुद्धप्रव्रज्यालाभलक्षणा अस्य यमुनराजस्यैषा सुगतिलाभफला जाता। कथं तहि क्षुल्लकादीनां R "साहुपओसी खुड्डो" इत्यादिग्रन्थोक्तानां दोषलवात् साधुप्रद्वेषादिमात्रलक्षणादनन्तसंसारः, उपलक्षणत्वात् संख्या
तोऽसंख्यातश्च केषाञ्चिदिति ? ॥४६६।। भण्णइ अप्पडियारो दोसलवो तेसि ण पुण इयरस्स । कयपडियारा य इमो ण फलइ विसमेत्थमाहरणं ।।
भण्यते समाधिरत्र । अप्रतिकारोऽकृतप्रायश्चित्तरूपप्रतिविधानो दोषलवस्तेषां क्षुल्लकादीनामिति स तथा विकारमा