________________
अभिग्रह
उपदेशपदः महााग्रंथः
तम्.
॥४८०॥
नात्मानमायासयति महात्मा प्रशस्तपरिणामो दण्डो नाम्ना साधुरिति ॥४५९।।२॥ एवं च तस्मिन्नातापयति, कालेन केनचिद् गतेन, राज्ञो यमुनस्य 'निग्गम'त्ति नगराद् वहिनिर्गमे जाते 'पासणय'त्ति विषये यमु
नराजज्ञादण्डानगारदर्शनमभूत् । ततो निनिमित्तमेवाकुशलोदयात् क्लिष्टकर्मविपाकात् तस्य तत्र दण्डानगारे कोपो बभूव । तत ऐहिकमामुष्मिक च पापफलमनालोच्यैव तेन तस्य साधोः खङ्गेन शीर्षच्छेदनमकारि । अन्ये त्वाचार्याः फलेन बीजपूरादिना तेन ताडना कृतेति ब्रुवते ।।४६०॥३॥ . तदनु शेषाणां सेवकलोकानां सम्बन्धिनि लेष्ठुक्षेपे राशिर्लेष्ठनामसौ जातः । अधिसहनायां 'स्वकृतकर्मफलपाकोऽयं मे समुपस्थितो न कश्चित् कस्यचिद् अपराधः' एवंरूपायां जातायां समुल्लसितशुक्लध्यानस्य ज्ञानं केवलाख्यमजायत । ततोऽन्तः कर्मणां सर्वेषामेव तत्कालं कृतो येनासावन्तकृतः, स चासौ केवली च तस्य भावस्तत्त्वं सम्पन्नमस्य, तत्क्षणमेव सिद्धोऽसावित्यर्थः । तत इन्द्रागमः शक्रावतारः पूजना चैव पुष्पधूपादिभिस्तच्छरीरस्य कृता शक्रेणेति ॥४६॥४॥
दृष्ट्वेन्द्रागमनं पूजनं च राज्ञो यमुनस्य लज्जा तेन महता स्वस्यानुचितचेष्टनेन त्रपा संवृत्ता । संवेगाद् "धिग्मामेवमसमञ्जसकारिणम्' एवंरूपादात्मवधपरिणामः समजनि । लब्धाभिप्रायेण चेन्द्रेण निवारणमकारि । अभाणि च सम्यग् on४८०।। यथावत् कुरु प्रायश्चित्तमेतदपराधशुद्धिरूपं, 'मो' इति पुर्ववत्, अत्रापराधप्राप्ताविति ॥४६२।।५।। ___ साधुसमीपे गमनं कृतं, श्रवणमाकर्णनं, तथा चैवेति समुच्चये, प्रायश्चित्तानामालोचनादीनां पाराञ्चिकपर्यवसानानाम् । ततः किमत्रापराधे प्रायश्चित्तमिति पप्रच्छ । कथितं च साधुभिः शुद्धं चरणं प्रायश्चित्तमित्येवं प्रतिपाद्यते । प्रव