________________
।। ४७९ ।।
महुराए जउणराया जउणावंके य डंडमणगारो । वहणं च कालकरणं सक्कागमणं च पव्वज्जा ।।४५८ ।। १ ।। जउणावंके जउणाए कोप्परे तत्थ परमगुणजुत्तो । आयावेण्ण महत्पा दंडो नामेण साहुत्ति ।। ४५९।।२।। काण रायणिग्गम पासणया अकुसलादया कोवा । खग्गेण सीसछंदण अण्णेउ फलेण ताडणया ||४६०|१३|| सेसाण लेट्ठखेवे रासी अहियासणाए जाणति । अंतगडकेवलितं इंदागम पूयणा चेव ||४६१ ||४ || दट्ठूण रायलञ्जा संवेगा अप्पवहपरीणामा । इंदनिवारण सम्मं कुण पायच्छित्तं मो एत्थ ||४६२॥५॥ साहसीवगमणं सवणं तह चेव पायछित्ताणं । किं एत्थ पायच्छित्तं सुद्धं चरणंति पव्वज्जा ॥ ४६३||६|| पच्छायावाइसया अभिग्गहा सुमरियम्मि ना भुंजे । दरभुत्ते चेवं चिय दिवसम्मि न तेण किल भुतं ॥ ४६४ || आराहण कालगओ सुरेसु वेमाणिएसु उववण्णो । एवं अभिग्गहा इह कल्लाणणिबन्धणं णेओ || ४६५ ||८||
इह मध्यमप्रतिष्ठितगगनतलोल्ले खिशिखर रत्नमय देवताविनिर्मित जिनस्तूपप्रभावोपलब्धसर्व दिङ्मण्डलव्याप्तिश्लाघायां मथुरायां पुरि यमुनो राजाऽभूत् । तत्र च यमुनावक्रे दण्डो नामानगार आतापनां चकार । 'वहणं च'त्ति हननं च यमुनेन राज्ञा तस्य कृतम् । कालकरणं च सञ्जातं शक्रागमनं चेन्द्रावताररूपम् । ततः प्रव्रज्या यमुनस्य समजनीति
।।४५८।। १ ।।
एतामेव गाथां गाथासप्तकेन व्याचष्टे - 'जउणा' इत्यादि यमुनावक्रे, एतदुक्तं भवति - यमुनाया नद्याः कूर्परे, कूर्परो नाम समाकुश्विताग्रभागस्य बाहोर्यादृश आकारस्तदाकारं यत् क्षेत्रं तत्र, परमगुणयुक्त आतापयति शीताद्यधिसहने
।।४७९