________________
उपदेशपाल एत्थ हु मणोरहो चिय अभिग्गहो हामि नवर विन्नेओ।
अभिग्रहमहाग्रंथ
माहात्म्याजदि पविसति तो भिक्खं देमि अहं तस्स चितणओ ॥४५६।। अत्र पारणकविषये 'हुः' यस्माद् मनोरथ एवाभिग्रहः पात्रदानविषयो नवरं केवलं न पुनरन्यत् किञ्चिद् भवति ॥४७८॥
R| विज्ञेयः । कथमित्याह-यदि प्रविशति कथञ्चिद् मम गृहे भगवानेषः, ततो भिक्षां ददाम्हमस्मै चिन्तनादेवंरूपात् ।।
अयमत्राभिप्रायः-सर्वोऽप्यभिग्रह इच्छा-प्रवृत्ति-स्थैर्य-सिद्धिभेदाच्चतुर्धा परिगीतः। तत्रास्येच्छारूप एव परिशुद्धोऽभिग्रहो भवन् स एव पारणकभेरीशब्दश्रवणकालं यावत् प्रवृद्धः सन् पारंपर्येण मोक्षफलतया संवृत्तः । इतरस्य च महात्म्यौचित्येन दत्तदानस्याप्य भ्युत्थानादेर्भक्तेश्च गुणवद्बहुमानरूपाया अभावाद् यादृच्छिकवसुधारादिफल एव संवृत्तः परिणामो, XI न पुननिर्वाणफल इति ॥४५६।। __ अथान्यदप्यभिग्रहमाहात्म्यभिधातुमाह - पञ्चग्गकयंपि तहा पावं खयमेइऽभिग्गहा सम्म । अणुबंधो य सुहो खलु जायइ जउणो इहं नायं ॥४५७।। प्रत्यग्रमाकुट्टिकादिदोषात् सद्योरूपं कृतं निर्वत्तितं प्रत्यग्रकृतं, किं पुनश्चिरकालकृतत्वेन जीर्णभूतमित्यपिशिब्दार्थः,
॥४७८॥ तथेति वक्तव्यान्तरसमुच्चये, पापं ऋषिघातादिजन्यमशुभं कर्म क्षयमपगममेति प्रतिपद्यते। कुत इत्याह-अभिग्रहात 'सम्म'त्ति सम्यग्रुपतया परिपालितात् । अनुबन्धश्चानुगमः पुनः शुभः पुण्यकानुवृत्तिरूपः, खलुवाक्यालंकारे, जायते । यमुनो राजा इहार्थे ज्ञातं दृष्टान्तः ।।४५७॥ तदेव गाथाष्टकेन संगृह्णबाह ;