________________
॥४७७।।
___ एनामेव गाथां गाथात्रयेण व्याचष्टे ;-- वेसालि वासठाणं समरे जिणपडिमसेट्टिपासणया । अतिभत्ति पारणविणे मणोरहो अन्नहिं पविसे ॥४५४।। जातिच्छिदाणधारा लोए कयपुन्नगोत्ति य पसंसा । केवलिआगम पुच्छण को पुग्ने जुन्नसेट्टित्ति ।।४५५।। । इह किलैकदा भगवान् श्रीमन्नहावीरः छद्मस्थकाले विहरन वेशाल्यां पुरि वर्षासु स्थानमकरोत् । ततः 'समरे'इति कामदेवायतने 'जिणपडिमसिटि पासणया' इति तं जिनं प्रतिमास्थितं जीर्णश्रेष्ठी नित्यमागत्य पश्यत्ति स्म । 'अइभत्ति' ति भक्तिश्चातीव तद्विषया तस्य समजनि । अन्यदा चतुर्मासकक्षपणस्य विकृष्टतपसः पारणकदिने प्रवृत्ते मनोरथो वक्ष्यमाणरूपो जज्ञे। गृहद्वारावलोकनादिविनयपरो यावदसावास्ते तावत् सजिनोऽन्यत्राभिनवश्रेष्ठिगृहे प्रविष्टः ।।४५४॥
दापिता च तेन स्वमाहात्म्यौचित्येन तस्मै भिक्षा । कृता च तद्देशविचारिभिर्जुम्भकदेवरर्हत्पारणकसन्तुष्टैर्यादृच्छिकदानधारा वसुधारावृष्टिलक्षणा । सा चैवं विज्ञेया-"अद्धत्तेरसकोडी उक्कोसा होइ तत्थ वसुधारा। अद्धत्तेरसलक्खा जहनिया होइ वसुधारा" ॥१।। ततो लोके कृतपुण्यकोऽसाविति तस्यैवं च प्रशंसा विजृम्भिनताऽभिनवश्रेष्ठिनः । 'केवलि आगम'त्ति कालेन च पापित्योयस्य केवलिनः कस्यचिद् आगमे तत्र बहलकुतूहलाकुलचेतसा लोकेन पृच्चाऽकारि भगवन् ! कोऽत्र परिपूर्णः पुण्यवान् ? भगवता चाचे जीर्णश्रेष्ठीति ॥४५५।।
ननु जीर्णश्रेष्ठिनः पारणकविषयो मनोरथ एवासीन्न कश्चिदभिग्रह इति कथमसो दृष्टान्ततयोपन्यस्त इत्याशंक्याह
॥४७७॥