________________
ज्ञानकलादि.
R
उपदेशपदः व्यभिचारपरिहारार्थम् । तथेति हेत्वन्तरसमुच्चये । तदनुबन्धत एवासत्प्रवृत्त्यरनुबन्धादेव । एतदपि कुत इत्याह- महाग्रंथः। तत्त्वेतरनिन्दनादितः । स हि मिथ्यात्वोपघातात् समुपात्तविपरीतरुचिस्तत्त्वां सद्भूतदेवतादिकमहदादिलक्षणं निन्दति ।
Himala इतरचातत्त्वं तत्तत्कुयुक्तिसमुपन्यासेन पुरस्करोति । ततस्तत्त्वेतरनिन्दनादिदोषाद् भवान्तरेऽप्यसत्प्रवृत्तिरनुबन्धयुक्तव
स्यादिति ।।४४६॥ ॥४७४॥
उम्मत्तस्सव तो तस्सुवलंमा जहित्थरूवात्ति । मिच्छोदयतो तो चिय भणियमिणं भावगहरवं ॥४४७॥
उन्मत्तस्येव मद्यपानपराधीनमनसो मनुजस्येव विज्ञेयस्तस्य मिथ्यादृष्टरुपलम्भो वस्तुबोधरूपो यदृच्छारूपः स्वविकल्पमात्रसंघटित इति । कुत इत्याह-मिथ्यात्वोदयाद् मिथ्यात्वमोहनीयकर्मविपाकात् । तथा हि-पीतमद्यो मदावेशात किंकरमपि राजीयति, राजनमपि किंकरोयति, तथोदीर्णमिथ्यात्वो जीव: सद्भूतमपि वस्तु अतत्त्वरूपतया व्यवहरति, असद्भूतमपि तत्त्वतयेति । अत एव यदृच्छोपलम्भाद् भणितमिदं मिथ्यात्वं भावग्रहरूपं पारमार्थिकग्रहस्वभावम्, इतरग्रहेभ्यः पिशाचादिरूपेभ्योऽस्य. महानर्थप्रसाधकत्वात् ॥४४७॥ णाणस्स फलं विरती पावे पुन्नम्मि तह पवित्तीओ । जोगत्तादिअणुगया भावेण ण सा अओऽण्णाणं ॥४४८॥
ज्ञानस्य वस्तुबोधस्य फलं कार्य विरतिरुपरमः । क्वेत्याह-पापे प्राणातिपातादिरूपे कुकृत्ये, पुण्ये पवित्रे स्वाध्यायध्यानतपश्चरणादौ कृत्यविशेषे, तथेति समुच्चये, प्रवृत्तिस्तु प्रवर्तनमेव या सम्पद्यते सापि ज्ञानफलम् । कीदृशीत्याह-योग्यव त्वाद्यनुगता योग्यत्वेन योग्यतारूपेण, आदिशब्दाद् द्रव्यक्षत्रकालभावत्वानुकूल्येन चानुगता सम्बद्धा। ततो भावेन भावार्थ