________________
।।४७३।।
य एवं पिण्डो भृदः सम्बन्धी स एव घट:, इत्यायातं मृद्रव्यस्योभयावस्थानुयायित्वम्, तिलतुषत्रिभागमात्रमपि स्वरूपभेदाभावात् । न च वक्तव्यमेकाकारेऽपि द्रव्ये पिण्डो घटश्वेत्यवस्थाभेदाश्रयेाऽसौ व्यवहारो लोके न प्रवर्त्यत इति, अवस्थातुरभेदे तन्निबन्धनानामप्यभेदप्राप्तेः कारणभेदपूर्वकत्वात् कार्यभेदस्य । यथोक्तम् - "अयमेव भेदा भेदहेतुर्वा यद् विरुद्धधर्म्माध्यासः कारणभेदश्व" इति । अनित्यवादे चैकान्तक्षणक्षयित्वलक्षणे पुरुषाद् विहितदेवभवप्राप्तिप्रायोग्यपुण्यकर्म्मणः सकाशात् मरणानन्तरं देवभवप्राप्तावन्य एकान्तेनैव विलक्षणो देव इत्यापद्यते । अयमभिप्रायः - - यथा समुपार्जितसुकृताद् मनुष्याद् नारकतयोत्पन्नो जीव: सर्वथाऽन्य एव तथा तद्मरणानन्तरं देवतयोत्पत्तावपि निरम्वयोत्पादस्याभयत्रापि समानत्वात् न चैतद् युज्यते, अकृताभ्यागमकृतनाशदोषप्रसङ्गात् । एवं च नित्यवादे य एव पिण्डः स एव घटो, य एव च घटः स एव पिण्ड इति न्यायात् सदसतोरवस्थयोरविशेषः । अनित्यवादेऽपि पुरुषादन्यो देवो देवाच पुरुष इति । ततो यथा पुरुषस्य विद्यमानताकाले कश्विद्देवतयोत्पन्न एकान्तेनैवाभ्यस्तथा तन्मरणानन्तरमुत्पन्नोऽपि देवोऽन्य एव । ततः पुरुषसत्त्वकालेऽसत्त्वकाले च देवतयोत्पन्नो जन्तुरविशिष्ट एवेति यो न्यायस्तस्मात् सदसतोरविशेष इति ॥ ४४५ । ।
भवेत्यादि । भवहेतुः संसारनिबन्धनं ज्ञानं शास्त्राभ्यासादिजन्यो बोध एतस्य मिथ्यादृष्टेः । कथमित्याह - प्रायशो बाहुल्येनासत्प्रवृत्तिभावेन विपर्यस्तचेष्टाकारणत्वात् तस्य । यदिह प्रायशोग्रहणं तद्यथाप्रवृत्तकरणच रमभागभाजां संनिहितग्रन्थिभेदानामत्यन्तजीर्णमिथ्यात्वज्वराणां केषाञ्चिद् दुःखितदयागुणवद्वेषसमुचिताचाररूपप्रवृत्तिसाराणां सुन्दर प्रवृत्तिभावेन
।।४७३।