________________
उपदेशपदाश करोति यथा सन्निपाते वातादिदोषत्रययुगपतप्रकोपरूपे सदौषधं क्रियातिक्तक्वाथादिरूपं योगसौख्यमात्रमेव, न पुन- मिथ्यादृष्टमहाग्रंथ स्तदुच्छेदमपि । तथैतद् अवेयकादिसुखं समयवचनौषधप्रयोगाद् उत्पन्नं विज्ञेयमनर्वापारे संसारे ।।४३९।।
विपुलसी
याभाव1 णय तत्तओ तयंपि हु सोक्खं मिच्छत्तमो हियमइस्स । जह रोद्दवाहिगहियस्स ओसहाओवि तब्भावे ॥४४०॥
त्वम्. न नैव, चकारो वक्तव्यान्तरसूचकः, तत्त्वतो निश्चयवृत्त्या तदपि अवेयकादिगतं, हुः स्फुटं, सौख्यं वर्तते। कस्येत्याह-मिथ्यात्वमोहितमतेः दृढविपर्यासपिशाचाभिभूतचेतसो जीवस्य । दृष्टान्तमाह-यथा रौद्रव्याधिग्रहीतस्य दुःसाधब्याधिबाधाविधुरशरीरस्य कस्यचिद् औषधादपि तद्भावे सौख्यभावे न तत्त्वतः सुखम् । तथा हि स्वभावतस्तावत् तस्य न सौख्यमस्ति, यदि परमौषधात् । परं तत्राप्यत्यन्तदारुणरोगेणानवरतं तुद्यमानमर्मणो बाह्य एव सुखलाभः ।
यथा हि शरत्काले कठोरतरतरणिकिरणनिकरण तापितेष्वपि महाह्रदेषु बहिरेवोष्णानि जलानि, मध्ये पुनरत्यन्तशीतIX लभावभाजि भवन्ति, एवं सक्रियायोगाद् बाह्यसौख्ययोगेऽप्यत्यन्तमिथ्यात्वोपपलुतत्वाह :खमेव ॥४४०।।
पुनरपि दृष्टान्तोपन्यासेनामुमेवार्थ भावयति ;जह चेवोवहयणयणो सम्म रूवं ण पासई पुरिसो । तह चेव मिच्छविट्ठी विउलं सोक्खं न पावेइ ॥४४शा
यथा चैवेत्ति दृष्टान्तार्थः । उपहतनयनः काचकामलादिदोषोपप्लुतलोचनः सम्यग् यथावद्रूपं स्त्रीपुरुषादिलक्षणं ॥४७०॥ न पश्यति न वीक्षते पुरुषः प्रमत्ती जीवः । तथा चैवेति दार्टान्तिकोऽर्थः । मिथ्यादृष्टिरुपहतसम्यग्बोधो विपुलं बहु IN समुपस्थितमपि सौख्यं न प्राप्नोति ।।४४१॥