SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ औषधस्याद्यापि स्वसामर्थ्यमलभमानस्य रोगस्वरूपं त्वनुवर्तमानस्य तत्पुष्टिकारकत्वमेव, यतो मध्यमावस्थयां तु स्यादपि कश्चिद् गुणस्तत्प्रयोगात् , मृदुभूतावस्थायां तु तथा तथा कुशलरुपचर्यमाणो रोगः सर्वथोपरमं प्रतिपद्यत एव । सदोषधानि चैवं शास्त्रे पठ्यन्ते--"तित्तकडुएहि सिमं जिणाहि पित्तं कसायमहुरेहिं । निद्धण्णेहि य वायं सेसा वाही अणसणाए ॥१॥" ॥४३७॥ परः प्राह ;-- ॥४६९|| कह णु अकालपओगे एत्तो गेवेज्जगाइसुहसिद्धी । णणु साहिगओसहजोगसोक्खतुल्ला मुणेयव्वा ।।४३८॥ - कथं नु प्रश्ने, पृच्छाम्य कालप्रयोगे तथाभव्यत्वापरिपाकलक्षणेऽकाले वचनौषधप्रयोगे जाते सति दुरभव्यानामभव्याX नां च केषांचिद् इतो वचनौषधप्रयोगाद् ग्रैवेयकादिसुख सिद्धिः शास्त्रे श्रूयते । उक्तं च--"तित्थंकराइपूयं वठ्ठणन्नेण वावि कज्जेण । सुयसामाइयलंभो होज्जा भव्वस्स गाँठम्मि ॥१।" ततश्च-"जे दंसणवावन्ना लिंग्गहणं करेंति सामन्ने । तेसि चिय उववाओ उक्कोसो जाव गेवेज्जा ।।२।।" अत्र प्रतिविधीयते-नन्विति परपक्षाक्षमायां, सा ग्रेवेयकादिसुखसिद्धिरधिकृतौषधयोगसौख्यतुल्या मुणितव्या । यथा हि सदोषधं समयप्रयोगात् क्षणमात्रं स्वसम्बन्धसामर्थ्याद असाध्ये व्याधौ सौख्यमुपनयति, तदनु च समधिकव्याधिप्रकोपाय सम्पद्यते । एवमधिकृतवचनौषधप्रयोगोऽप्यपक्वभव्यात्वनां सत्त्वानां ग्रैवेयकादिषु सुखसिद्धिमात्रमाधाय पश्चात् पर्यायेण नरकादिदुर्गतिप्रवेशफलः सम्पद्यते ॥४३८।। _____एतत् स्वयमपि भावयति ;कुणइ जह सण्णिवाए सदासह जोगसोक्खमेत्तं तु । तह एवं विष्णेयं अणोरपारम्मि संसारे ॥४३९॥ ||४६९।।
SR No.600269
Book TitleUpdeshpad Mahagranth Satik Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1991
Total Pages448
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy