SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ महाग्रंथ वस्तुप्राप्तिकालाका| लनिरू पणम्. , ॥४६८ | न किञ्चित् तत्प्रतीकारयोः साम्यमस्ति । तथा चार्षम्-“मूलमेयमहम्मस्स महादोससमूस्सयं । तम्हा मेहुणसंसग्गि निग्गंथा वजयंति णं" ॥१॥ यच्चोक्तं नास्त्यष्टमी पृथिवीति, सापि शठोक्तिरेव, संसारमयमसारममन्यमान एवेत्थं वक्ति । नहि संसारभीरवोऽन्यतरनरकपृथ्वीदुःखमप्यनुमभ्यन्ते, किं पुनः सर्वपृथ्वीप्रभवमिति । यच्च मीमांसकैर्वचनापौरुषेयत्वमुख़ुष्यते, तदपि सुधीभिर्नेष्यत एव । तथा हि-उच्यत इति वचनं पुरुषव्यापारानुगतं रूपमस्य, कथं तक्रियाया अभावे तद् भवितुमर्हति ? । न चैतत् केवलं क्वचिद् वनादुपलभ्यते । उपलब्धावपि क्वचिददृष्टवक्त्राशङ्का न निवर्त्तते । यच्चेश्वरकारणिकैरीश्वर कर्तक जगदिति प्रोच्यते। तदप्युच्चावचमेव । ईश्वरो हि परैरुत्पत्तिविकलः कल्प्यते । न च तादृशात् | किञ्चित् कार्यमुपपद्यते । यथोक्तम्-'नेश्वरो जन्मिना हेतुरुत्पत्तिविकलत्वतः । गगनाम्भोजवत् सर्वमन्यथा युगपद् भवेत् ॥१॥” इति ॥४३६।। ___इत्थमकाल कालं च वचनौषधप्रयोगस्य प्रतिपद्य दृष्टान्ततयोपन्यस्तं सदौषधमधिकृत्य कालमुपदिशन्नाह;देसावेक्खा चेवं सम्म काला सदासहगओवि । कुललेहिं मुणेयव्वो सइ वेज्जगसत्थनीईए ॥४३७॥ दोषापेक्षया इह दोषा वातपित्तश्लेष्मप्रकोपप्रभवा ज्वरातीसारादयो रोगा मृदुमध्याधिमात्ररूपास्तेषामपेक्षा च तानपेक्ष्येत्यर्थः, एवं वचनोषधप्रयोगवत् सम्यक् कालः प्रयोगयोग्यः सदौषधगतः स्निग्धोष्णादिसुन्दरौषधोपजीवनारूपः, कि पुनः प्रागुक्तो वचनौषधप्रयोगकाल इत्यपिशब्दार्थः, कुशलर्बुद्धि मद्भिर्मुणितव्यो ज्ञेयः सदा सर्वकालम् । कथमित्याह-वैद्यकशास्त्रनीत्या आत्रेयचरकसुश्रुतादिचिकित्साग्रन्थानुसारेण । तत्राधिमात्रे रोगे सदौषधस्याप्रयोगावसर एव, ||॥४६८॥ DHE
SR No.600269
Book TitleUpdeshpad Mahagranth Satik Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1991
Total Pages448
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy