________________
॥४६७||
गदीश्वरकर्तृत्वादि नास्तिकमीमांसकनैयायिका दिपरिकल्पितं न मन्यते, एष भिन्नग्रन्थिः, सम्यग्बोधप्रदीपप्रभाप्रहतप्रौढमिथ्यात्वान्धकारभावत्वात्तस्य । मन्यते पुनरित्यं यत् कार्य तदनुरूपकारणप्रभवं, यथा शालिगोधूमादिधान्यविशेषः, कार्यं चेहभविका हर्षविषादादयः, यतेषामनुरूपं कारणं तत्प्राग्भवचैत्यन्यमिति परलोकसिद्धिः । तथा संति च जिनाः, तत्साधकप्रमाणस्याबाधित विषयस्य सत्त्वात् । तथा हि-ये यतो हेतोर्देशतः क्षीयमाणा वीक्ष्यन्ते ते ततः प्रकर्षप्राप्तात सम्भवतसर्वक्षया अपि, यथा चिकित्सासमीरणादिभ्यो रोगजलधरादयो, दृश्यन्ते च प्रतिपक्षाभावनातः क्वचित प्राणिनि देशतः क्षीयमाणा रागादयः, ततः प्रस्तुतभावनाप्रकर्षात् सम्भवत्येव तेषां कदाचिद् सर्वप्रलय इति, ये च सर्वप्रक्षीणदोषास्त एव जिनाः । न चादर्शनमात्रेण तेषामसत्त्वमुद्भावनीयमग्दिशिभिरदृश्यामानानामपि पातालतलगतानां मूलकीलादीनां बहूनां भावानां सद्भावात् । धर्मोऽपि समस्ति, सूशे धर्मस्योपलक्षणत्वात् पापमपि गृह्यते । ततः पुण्यं र पापं समस्तीत्यर्थः । कथमन्यथा तुल्यव्यवसाययोरपि द्वयोः फलसिद्धौ सर्वजनप्रतीतो भेद उपलभ्यते ? यथोक्तम् - "तल्यप्रतापोद्यमसाहसाना, केचिल्लभन्ते निजकार्यसिद्धिम् । परेन तामत्र निगद्यतां मे, कास्ति हित्वा यदि कोऽपि हेतः? ॥१॥ विचित्रदेहाकृतिवर्णगन्धप्रभावजातिप्रभवस्वभावाः । केन क्रियन्ते भवनेऽङ्गिवर्गाश्चिरंतनं कर्म X॥४६७॥ निरस्य चित्राः ? ॥२॥ विवर्य मासान् नव गर्भमध्ये, बहुप्रकारः कललादिभावः । उद्वर्त्य निष्कासयते सवित्र्याः को गर्भतः कर्म विहाय पूर्वम् ? ॥३॥" यञ्च गण्डपींडाधिसहनतुल्यं शीलमुक्तं तदपि न चारु, गण्डपीडाप्रतीकारस्य तथाविधरागद्वेषयोरभावेन प्रवृत्तत्वात् । बस्तिनिरोधपीडाप्रतीकारस्य च संसारमूलतीवकामरागमूलत्वेनात्यन्तदुर्वृत्तत्वाद