________________
।। ४६५ ।।
अनाभागबहुलत्वात्तत्कालस्य । भिन्नग्रन्ध्यादयस्तु व्यावृत्तमोहत्वेनातिनिपुणबुद्धितया तेषु तेषु कृत्येषु प्रवृर्त्तमानास्तत्तकर्मव्याधिसमुच्छेदका जायन्त इति ॥ ४३३॥२॥
ग्रन्थिभेदमेव पुरस्कुर्वन्नाह; -
इहरावि हंदि एयम्मि एस आरोग्गसाहगा चेव । पोग्गलपरियदृद्धं ज़मूणमेयम्मि संसारो || ४३४ ||
इतरथापि विधिसदापालनामन्तरेणापि । हंदीति पूर्ववत् । एतस्मिन् गन्थिभेदे कृते सत्येष वचनौषधप्रयोग आरोग्यसाधकश्चैव भावारोग्यनिष्पादक एवं सम्पद्यते । तथा च पठ्यते - " लब्ध्वा मुहूर्तमपि ये परिवर्जयन्ते सम्यक्त्वरनमनवद्यपदप्रदायि । भ्राम्यन्ति तेऽपि न चिरं भववारिराशौ तद्बिभ्रतां चिरतरं किमिहास्ति वाच्यम् ? || १ || ” अत्र हेतुमाह - पुद्गलानामौदारिक- वैक्रिय-तैजस-भाषा-आनप्राण - मनः- कर्म वर्गणापरिणामपरिणतानां विवक्षितकालमादौ कृत्वा यावता सामस्त्येनैकजीवस्य ग्रहनिसग्गी सम्पद्यते स काल: पुद्गलपरावर्त्त इत्युच्यते, पुद्गला ग्रहनिसग्गीभ्यां परिवर्त्तन्ते परापरपरिणति लभन्तेऽस्मिन्निति व्युत्पत्तेः, तस्यार्द्धं यावत्, यद्यस्माङ्कनं किञ्चिद् हीनमेतस्मिन् ग्रन्थिभेदे सति संसारो जीवानां तीर्थकराद्याशातनाबहुलानामपि । अत्र च दृष्टान्ताः कूलबालगोशालकादयो वाच्याः ।। ४३४ ।। एयम्मि एयजागे ण विवज्जयमेति पायसेो जीवा । समुवत्थिय कल्लाणो णहु तव्विवरीयगा होति ||४३५||
एतस्मिन् ग्रन्थिभेदे सति एतद्येागे वचनौषधप्रयोगे सम्पन्ने सति नैव विपर्ययं देवगुरुधर्मतत्त्वगोचरं विपय समेति प्रतिपद्यते प्रायशो बाहुल्येन जीवः । प्रायोग्रहणमवश्यवेद्यमिथ्यात्वादिक्लिष्टकर्म्मणां केषाञ्चिद् विपर्ययसम्भवेन व्यभि
॥। ४६५ ॥