SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ उपदेशपदः विपर्यासलक्षणं यत्र स तथा; कालश्चरमपुद्गलपरावर्तव्यतिरिक्तशेपपुदगलपरावर्त्तलक्षणः। अत्र च वचनौषधप्रयो- प्रन्थिभेदमहाग्रंथः गेऽकालस्त्वकाल एव भवति ज्ञातव्यः । चरमपूदगलपरावर्तलक्षणस्त तथा भव्यपरिपाकतो बीजाधानोदभेदपो- IAI फलप्र० षणादिषु प्रवर्त्तमानेषु स्यादपिकाल इति । अत एवाह--कालस्त्ववसरः पुनरपुनर्बन्धकप्रभृतिस्तत्रापुनर्बन्धकः "पानं न तिब्वभावा कुणइ" इत्यादिलक्षण', आदिशब्दाद् मार्गाभिमुखमार्गपतितौ गृह्यते। तत्र मार्गो ललितविस्त।।४६४॥ रायामनेनैव शास्त्रकृतेत्थंलक्षणो निरूपितो 'मग्गदयाणं इत्याद्यालापकव्याख्यायाम, यथा इह मार्गश्चेतसोऽवक्रगमनं भुजंगगमननलिकायामतुल्यो विशिष्टगुणस्थानावाप्तिप्रवणः स्वरसवाही क्षयोपशमविशेषो हेतुस्वरूपफलशुद्धा सुखेत्यर्थः । तत्र पतितः प्रविष्टो भव्यविशेषो मार्गपतित इत्युच्यते, तदादिभावापन्नश्च मार्गाभिमुख इति । एतौ च चरमयथाप्रवृत्तकरणभागजावेव विज्ञेयौ अपुनर्बन्धककाल: प्रभृतिर्यस्य स तथा धीरैस्तीर्थकरादिभिनिद्दिष्टो व्यवहारत इति ॥ ४३२ ।। १॥ निश्चयतो निश्चयनयमतेन पुनरेष वचनौषधप्रयोगकालो विज्ञेयः । क हत्याह-ग्रन्थिभेदकालस्तु ग्रन्थिभेदकाल एव, RL यस्मिन् कालेऽपूर्वकरणानिवृत्तिकरणाभ्यां ग्रन्थिभिन्नो भवति तस्मिन्नेवेत्यर्थः । कुतो यत एतस्मिन् ग्रन्थिभेदे सति विधिनावस्थोचितकृत्यकरणलक्षणेन सदा सर्वकालं या पालना वचनौषधस्य तया कृत्वा आरोग्यं संसारव्याधिनिरोधलक्षणमेतस्माद् वचनौषधप्रयोगाद् भवति । अपुनर्बन्धकप्रभृतिषु वचनप्रयोगः क्रियमाणोऽपि न तथा सूक्ष्मबोधविधायकः, ॥४६४।।
SR No.600269
Book TitleUpdeshpad Mahagranth Satik Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1991
Total Pages448
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy