________________
उपदेशपद महाग्रंथ
॥४६२।।
प्रथमसमितिरूपा परीक्षितुमारब्धा ॥४२६ ।। ६ ।।
कथमित्याह-मार्गप्रवृत्तसञ्चरणानां मुइंगलिकानां कीटिकानामित्यर्थः, यद् रक्षणं तत्र गतं चित्तं यस्य स तथा हस्तिना समुत्क्षिप्तोऽसौ । ततो भूमौ निपतितस्य कोटिकारक्षणकपरिणतेरशक्यरक्षं तदुपद्रवं स्वकायेन पश्यतः स्वजीवितव्यनिरपेक्षस्य यत् पुनः पुनर्मिथ्यादुष्कृतं तेन या संवेगवृद्धिस्तस्याः सकाशाद् गतिद्विकस्य नारकतिर्यग्गतिलक्षणस्य क्षपणं निर्लेपनमस्याभूत् तद्गतिसम्पादककर्मानुबन्धव्यवच्छेद इत्यर्थः ।।४२७।।७।।
वैमानिकेषु सौधर्मादिस्वग्र्गोद्भवदेवेषु शुभमनुष्येषु च यः शुद्धाचारो निर्मल स्वावस्थोचितानुष्ठानरूपस्तस्य परिपाल नायां निरतः समाहितः सन् सप्ताष्टजन्ममध्ये, तत्र सप्त देवभवाः कौशाम्बी ब्राह्मण सुतजन्मप्रभृतयश्चाष्टी मनुष्यभवास्तेषां मध्येऽष्टमे मनुष्यभवे इत्यर्थः, चक्री चक्रवर्ती भूत्वा संसिद्धो निर्वृत इति ॥४२८||८|
अथ प्रसंगादेवेदमाह; -
अनेवि महासत्ता अतियारजुयावि तप्फलं भीतुं । संसुद्धमग्गनिरया कालेणमणंतगा सिद्धा ||४२९||
अभ्येऽपि पूर्वोक्तक्षुल्लकादिजीवव्यतिरिक्ता महासत्त्वाः प्रशस्तपरिणतयोऽतीचारयुता अपि पीठमहापीठादिवत् तत्फलमतीचारकार्य स्त्रीत्वादि मुक्त्वानुभूय । किमित्याह - संशुद्धमार्गनिरताः सन्तः कालेन भूयसाऽतीतेनानन्तका जीवाः सिद्धाः ।।४२९ ।। उपसंहरन्नाह ; --
द्रव्यौषध दृष्टान्तउ
पनयप्र०
।।४६२।।