SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ उपदेशपद महाग्रंथ ॥४६२।। प्रथमसमितिरूपा परीक्षितुमारब्धा ॥४२६ ।। ६ ।। कथमित्याह-मार्गप्रवृत्तसञ्चरणानां मुइंगलिकानां कीटिकानामित्यर्थः, यद् रक्षणं तत्र गतं चित्तं यस्य स तथा हस्तिना समुत्क्षिप्तोऽसौ । ततो भूमौ निपतितस्य कोटिकारक्षणकपरिणतेरशक्यरक्षं तदुपद्रवं स्वकायेन पश्यतः स्वजीवितव्यनिरपेक्षस्य यत् पुनः पुनर्मिथ्यादुष्कृतं तेन या संवेगवृद्धिस्तस्याः सकाशाद् गतिद्विकस्य नारकतिर्यग्गतिलक्षणस्य क्षपणं निर्लेपनमस्याभूत् तद्गतिसम्पादककर्मानुबन्धव्यवच्छेद इत्यर्थः ।।४२७।।७।। वैमानिकेषु सौधर्मादिस्वग्र्गोद्भवदेवेषु शुभमनुष्येषु च यः शुद्धाचारो निर्मल स्वावस्थोचितानुष्ठानरूपस्तस्य परिपाल नायां निरतः समाहितः सन् सप्ताष्टजन्ममध्ये, तत्र सप्त देवभवाः कौशाम्बी ब्राह्मण सुतजन्मप्रभृतयश्चाष्टी मनुष्यभवास्तेषां मध्येऽष्टमे मनुष्यभवे इत्यर्थः, चक्री चक्रवर्ती भूत्वा संसिद्धो निर्वृत इति ॥४२८||८| अथ प्रसंगादेवेदमाह; - अनेवि महासत्ता अतियारजुयावि तप्फलं भीतुं । संसुद्धमग्गनिरया कालेणमणंतगा सिद्धा ||४२९|| अभ्येऽपि पूर्वोक्तक्षुल्लकादिजीवव्यतिरिक्ता महासत्त्वाः प्रशस्तपरिणतयोऽतीचारयुता अपि पीठमहापीठादिवत् तत्फलमतीचारकार्य स्त्रीत्वादि मुक्त्वानुभूय । किमित्याह - संशुद्धमार्गनिरताः सन्तः कालेन भूयसाऽतीतेनानन्तका जीवाः सिद्धाः ।।४२९ ।। उपसंहरन्नाह ; -- द्रव्यौषध दृष्टान्तउ पनयप्र० ।।४६२।।
SR No.600269
Book TitleUpdeshpad Mahagranth Satik Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1991
Total Pages448
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy