________________
।। ४६१।।
संसारिको भवति, सम्यक्त्वादिगुणघातक मिथ्यात्वादिकम्र्मोपार्जनेन दूरं सन्मार्गपराङ्मुखस्य तत्त्रयोपस्थापनाचार णादिति ॥४२३॥३॥
अथ प्रस्तुतं सम्बन्धयन्नाह - स देवनामा साधुस्तस्मिन् संसारे तद्विपाकाच्छीतलविहारोपात्तकर्मोदयाद् हीनो जातिकुलादिभिः, दुःखितश्च शरीरदुःखोपनिपातैः प्रेषणककारी परगृहकर्मकरः सन् तथा विफलो निष्फलतामागतः क्रियादिः कायक्रियावचन चिन्तारूपो भावो व्यापारो यस्य स तथाप्रायो भूत्वा मन्दमतिहिताहितविवेकशून्यमतिः
।। ४२८ ।। ४ ।।
क्षपयित्वा समुच्छेद्य तकं कुकर्म शीतलविहारोपात्तं जातः कौशाम्बीमाहनसुतः कौशाम्ब्यां पुरि ब्राह्मणसूनुरिति । विद्यावान् चतुर्दश विद्यास्थानपरपारगामी, परं अगुरुको राजभवनादिषु महाजनस्थानेषु क्वचिदप्यप्राप्तगौरवः समभूत् । ततश्चास्य चिन्तासमजनि निजविषयप्रवृत्तिगौरवगौचरा कथमहमनपराधोऽपि जनैरित्थमेवावज्ञातः कुतः । 'ओसरण 'त्ति तस्मिश्व समये कस्यचिदर्हतो भगवतस्तत्र समवसरणं समजनि । श्रुतधर्मस्य चास्य निष्क्रमणं व्रतमभूत्तदन्ते ।। ४२५॥५।।
तत्र च लेाकावज्ञा । पृच्छा येथा भगवन्! कुतो निमित्तादहमवज्ञातो जातः । निमित्तकथने च शीतलविहाररूपस्य तो पुनर्निवेदने कृते परमसंवेगः समुदपादि । ततः सर्वत्र साधुसमाचारे उद्यतयोगः सेापयोगप्रवृत्ति: स बभूव । अन्यदा शक्रस्तुतिरुद्यतयोगविषया जाता । ततः 'देवहत्थिरिय'त्ति एकेन देवेन शक्रवचनमश्रद्दधाता हस्तीभूय ईर्यापथ
।।४६१।