________________
।।४५७ ।।
अथ यद् द्रव्यद्वैविध्याद् द्विविधं विनाशनमुक्तं, तदेव दर्शयति ; --
जोग्गं अतीयभावं मूलुत्तरभावओ अहव कटुं । जाणाहि दुविहमेयं सपक्खपरपक्खमाइ च ।।४१६ ।।
योग्यं चैत्यगृहनिष्पत्तौ समुचितमेकं द्वितीयं तु अतीतभावं चैत्यगृहनिष्पत्तिमपेक्ष्य समुत्तीर्णयेाग्यतापर्यायं लग्नोत्पाटितमित्यर्थः । मूलोत्तरभावतो वा काष्ठमुपलक्षणत्वाद् उपलेष्टकादि वा ग्राह्यं जानीहि द्विविधभेदं विनाशनीयम् । इत्थं इह मूलभावापन्नं स्तम्भकुम्भिकापट्टादियोग्यं काष्ठदलम्, उत्तरभावापन्नं तु पीठप्रभृत्युपर्याच्छादकतया प्रवृत्तम् । विनाशनीयद्वैविध्याद् विनाशनं द्विविधमुक्तम् । सम्प्रति विनाशकभेदात्तदाह-स्वपक्षपरपक्षादि वा । स्वपक्ष: साधुश्रावकादिरूप:, परपक्षस्तु मिध्यादृष्टिलक्षणो यश्चैत्यद्रव्यविनाशकः, आदिशब्दाद् मिध्यादृष्टिभेदा एव गृहस्थाः पाखण्डिनश्च चैत्यद्रव्यविनाशका गृह्यन्ते । ततोऽयमभिप्रायः - याग्यातीतभेदाद् मूलोत्तरभेदात् स्वपक्षपरपक्षगतयोर्गृहस्थपाखण्डिरूपयोर्वा विनाशकयोर्भेदात् प्रागुक्तं तद्द्द्रव्यविनाशनं द्विविधभेदमिति ॥ ४१६||
अथ चैत्यद्रव्यरक्षाफलमभिधातुमाह; -
forearmबुद्धिकरं पभावगं णाणदंसणगुणाणं । रक्खंतो जिणदव्वं परित्तसंसारिओ होइ ।।४१७॥
जिनप्रवचनवृद्धिकरं भगवदर्हदुक्तशासनोन्नतिसम्पादकम्, अत एव ( प्रभावकं ) विभावनं विस्तारहेतुः । केषामित्याह ज्ञानदर्शनगुणानाम् । तत्र ज्ञानगुणा वाचना- प्रच्छना - परावर्त्तना - अनुप्रेक्षाधर्मकथालक्षणाः, दर्शनगुणाश्च सम्यक्त्वहेतवो जिनयात्रादिमहामहरूपाः रक्षस्त्रायमाणो जिनद्रव्यं निरूपितरूपं, साधुः श्रावको वा परित्तसंसारिकः परिमितभवभ्रमण
।।४५७ ।।