________________
उपदेशपदः महााग्रंथः
।।४५६॥
चेइयदच्वं साहारणं च जो दुहति मोहियमतीओ । धम्म व सो न याणति अहवा बद्धाउओ पुग्धि ॥४१४।।
चैत्यसाचंत्यद्रव्यं चैत्यभवनोपयोगि धनधान्यादि काष्ठपाषाणादि च, तथा साधारणं च द्रव्यं, तथाविधव्यसनप्राप्ती शेषद्र
धारणद्र
व्यविनाव्यान्तराभावे जिनभवनजिनबिम्बचतुर्विधश्रमणसंघजिनागमलेखनादिषु धर्मकृत्येषु सीदत्सु सत्सु यदुपष्टम्भकत्वमानी
शकस्ययते, तत्र यो द्रुह्यति विनाशयति । कीदृशः सन्नित्याह-मोहितमतिको लोभातिरेकेण मोहमानीता मोहितामतिरस्येति मिथ्या. समासः धर्म वा जिनप्रणीतं स न जानाति । अनेन च तस्य मिथ्याहृष्टित्वमुक्तम् । अथवा, जानन्नपि किञ्चिद् धर्म बद्धायुष्को नरकादिदुर्गतौ पूर्व चैत्यद्रव्यादिचिन्ताकालात् प्राग् इति ॥४१४॥ तथा-- चेइयदव्बविणासे तद्दव्वविणासणे दुविहमेए । साहू उवेक्खमाणो अणंतसंसारिओ भणिओ ॥४१५।।
इह चैत्यद्रव्यं क्षेत्रहिरण्यग्रामवनवास्त्वादिरूपं तत्तत्समयवशेन चैत्योपयोगितया सम्पन्नं तस्य विनाशे चिन्तानियुक्तः पुरुषः सम्यगप्रतिजागर्यमाणस्य स्त्रत एव परिभ्रंशे सम्पद्यमाने, तथा तद्रव्यविनाशने चैत्यद्रव्यविलुण्टने परैः क्रियमाणे । कीदृशे इत्याह-द्विविधभेदे वक्ष्यमाणविनाशनीयद्विविधवस्तुविषयत्वेन द्विप्रकारे । साधुः सर्वसावधव्यापारपरामुखोऽपि यतिरुपेक्षमाणो माध्यस्थ्यमवलम्बमानोऽनन्तसंसारिकोऽपरिमाणभवभ्रमणो भवति, सर्पज्ञाज्ञोल्लंघनात् । उक्तं
||४५६।। च पञ्चकल्पभाष्ये, यथा--"चोइए चेइयाणं खेत्तहिरण्णाई गामगावाई । मग्गंतस्स हु जइणो तिगरणसुद्धी कहं नु भवे? ||१।। भण्णइ एत्थ विभासा जो एयाई सयं विमग्गेज्जा । न हु तस्स होइ सुद्धी अह कोइ हरेज्ज एयाई ॥२॥ सम्वत्थामेण तहि संघेणं होइ लग्गियध्वं तु । सचरित्तचरित्तीणं एवं सम्वेसि सामन्नं ॥३॥” इति ॥४१५॥