SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ उपदेशपद महाग्रंथ ।।४५८ ।। ४ भाग् भवतीति । तथा हि- जिनद्रव्ये रक्षिते सति तद्विनियोगेन चैत्यकार्येषु प्रसभर्मुत्सर्पत्सु भविनो भव्याः समुद्गतोदग्रहर्षा निर्वाणावन्ध्यकारणबोधिबीजादिगुणभाजेो भवन्तीति । तथा, चैत्यश्रयेण संविग्नगीतार्थसाधुभिरनवरतं सिद्धान्तव्याख्यानादिभिस्तथा तथा प्रपञ्च्यमानैः सम्यग्ज्ञानगुणवृद्धिः सम्यग्दर्शनगुणवृद्धिश्व सम्पद्यते । इति चैत्यद्रव्यरक्षाकारिणो मोक्षमार्गानुकूलस्य प्रतिक्षणं मिथ्यात्वादिदोषोच्छेदस्य युज्यत एव परीत्तसंसारिकत्वमिति ॥ ४१७ ॥ अथ चैत्यद्रव्यवृद्धिकरस्य फलमाह ; - furvarवुद्धिकरं पभावगं णाणबंसणगुणाणं । वतो जिणदव्वं तित्थगरतं लहह जोवो ॥ ४१८ । पूर्वार्द्धव्याख्या पूर्ववत् । वर्द्धयन् अपूर्वा पूर्वद्रव्यप्रक्षेपेण वृद्धि नयन् जिनद्रव्यं, तीर्थकरत्वं चतुर्वर्णश्रीश्रमणसंघकर्तृस्वलक्षणं लभते जीवः ॥ ४१८ || asकुलगणसंघे उवयारं कुणइ जो अणासंसी । पत्तेयबुद्ध गणहर तित्थयरो वा तओ होइ ।। ४१९ ।। चैत्यं च कुलं च गणश्चेति द्वंद्वैकत्ववद्भावश्चैत्यकुलगणसंघं तत्र विषये उपकारमुपष्टंभं करोति यः प्राणी, अनाशंसी ऐहिकपारलौकिकफलाभिलाषविकलः सन् । किमित्याह 'पत्तेयबुह 'त्ति प्रत्येकबुद्धो बाह्यवृषभादिदर्शनसापेक्ष दीक्षालाभ:, 'गणहर'त्ति गणधरस्तीर्थकरशिष्यो मातृकापदत्रयोपलंभानन्तरं समुद्घाटितसमस्तश्रुतोपयेोगः तीर्थंकरो जिनपतिः, वा शब्दो विकल्पार्थः, तक चैत्याद्य प्रकारको जीवो भवति । इह चैत्यं प्रतीतरूपमेव, कुलं चान्द्रनागेन्द्रादि, गणत्रयाणां कुलानां समानसामाचारकाणामत एव परस्परसापेक्षाणां समवायः, संघस्तु साधुसाध्वीश्रावकश्राविका विनाशन द्वैविध्यम् चैत्यद्र०रक्षणफ लख. ।।४५८ ।।
SR No.600269
Book TitleUpdeshpad Mahagranth Satik Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1991
Total Pages448
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy