SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ उपदेशपदः महााग्रंथः संकाशश्रावकह हान्तः ॥४५४॥ ततः शुभभावप्रवृत्तितो लाभान्तरायापायहेतोः शुभस्य पूर्वोक्ताभिग्रहलक्षणस्य भावस्य प्रवृत्तरुद्भवात् प्रक्षीयमाणक्लिष्टकर्मणः सम्प्राप्तिर्धनधान्यादिलाभरूपा जज्ञे । त्यक्तमुर्छस्य चाभिग्रहे प्रागुक्त निश्चलता स्थैर्यलक्षणा सम्पन्ना । कालेन च भूयसो द्रव्यस्योपचये सम्पन्ने सति परद्रव्यसाहाय्यनिरपेक्षत्वेन 'चेईहरकारावण'त्ति तस्यामेव तगरायां चैत्यगृहकारापणं विहितं । तत्र चैत्यगृहे सदा सर्वकाल भोगपरिशुद्धिः चैत्यगृहासेवननिर्मलता कृता अभोगपरिहारेण ॥ ४०९ ॥७॥ ____अभागमेव दर्शयति-निष्ठीवनादिकरणमिह निष्ठीवनं मुखश्लेष्मपरित्यागः, आदिशब्दाद् मूत्रपुरीषताम्बूलकर्णनासिकादिमलप्रोज्झनग्रहः । असत्कथा स्त्रीभक्तचोरजनपदादिवृत्तान्त निवेदनलक्षणा । अनुचितासनादि चानुचितमासनं गुरुजनासनापेक्षयोचं समं वा, आदिशब्दात् पर्गस्तिकादिबन्धग्रहः । एतत्स, किमित्याह-आयतने जिनगृहेऽभोगो वर्त्तते । इह नञ् कुत्सार्थः, यथात्र-"जह दुव्वयणमवयणं कुच्छियसीलं असीलमसईए। भण्णइ तह णाणंपि हु मिच्छद्दिहिस्स अण्णाणं ॥१॥” इति । ततः कुत्सितो भोगश्चैत्यगृहोपजीवनमभोगः, चैत्याशातनाफलत्वेन तस्य दुर्गतिहेतुत्वात् । अत्र भोगपरिशुद्धौ देवा भवनपत्यादय उदाहरणम् ॥४१०।।८।। . एतदेव भावयति-देवेत्यादि । देवगृहके नन्दीश्वगदिगतचैत्यभवनरूपे देवा जिनजन्ममहिमादिषु सन्तः विषयविषमोहिता अपि दुष्टचारित्रमोहोदयाद् न नैव कदाचित् कस्यामपि वेलायामप्सरोभिरपि स्वप्राणाधिकप्रेमपदप्राप्ताभिः समं सहासखेलाद्यपि, इह हासः प्रतीत एव, खेला क्रीडा, आदिशब्दाच्चित्रसूचीवचनग्रहः, अपिशब्दाच्च संभोगादिस्थू
SR No.600269
Book TitleUpdeshpad Mahagranth Satik Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1991
Total Pages448
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy