________________
।।४५३ ।।
रारोपणपूर्वकदेशान्तरसंचारणस्वरूपेण चूर्णनेन च या वेदनास्ताः प्राप्य बहुशोऽनेकशः || ४०४ || २ ||
तथा 'दारिद्दकुलुपति' इति दरिद्रकुलोत्पतिं यावजन्म दरिद्रभावं च तत्र प्राप्य, बहुशो बहुजनधिक्कारं यतः कुतोऽपि निमित्ताद् अनिमित्ताच बहोर्जनाद् धिक्कारमवर्णवादं तथेति समुच्चये, मनुष्येष्वपि समुत्पन्नः, गर्हणीयमन्यदपि पुत्रकलत्रादिकं निन्द्यमेव प्राप्य ||४०५ ||३||
पश्चात्तगरायां पुरि इभ्यसुतः सञ्जातः । कस्यां सत्यामित्याह तत्कर्मशेषतायां तु तस्य चैत्यद्रव्योपयोगकालोपाजितस्य कर्मणो लाभान्तरायादेः शेषोऽवशिष्टोंशः, तस्य भावस्तत्ता, तस्यां सत्यमेव परं तत्रापि दारिद्र्य निर्द्धनत्वम्, असम्प्राप्तिर्वास्य । पुनः पुनरनेकश इत्यर्थः, चित्तनिर्वेदो हृदयाद्वेगरूपः समभूत् ॥ ४०६।४।।
अन्यदा च केवलियोगे जाते सति पृच्छा तेन कृता । यथा भगवन्! मया भवान्तरे किं कर्म कृतं येनेत्थमसम्पद्यमानमनोरथोऽहं सम्भूतः ? कथने संकाशादिभवग्र हणवृत्तान्तस्य केवलीना कृते, बोधिरुक्तरूपस्तथैव क्षुल्लकजीववत् संवेगस्तस्य समपद्यत । प्रपच्छ च किमित्यत्र चैत्यद्रव्योपयोगापराधे मम कर्तुमुचितमिदानीं साम्प्रतम् ? भणितं च केवलिना, यथा - चैत्यद्रव्यस्य जिनभवनबिम्बयात्रास्नानादिप्रवृत्तिहेतोहिरण्यादिरूपस्य वृद्धिरुपचयरूपोचिता कर्त्तुमिति
॥ ४०७ ।।५।।
ततोऽस्य ग्रासाच्छादन मात्रं प्रतीतरूपमेव मुक्त्वा यत् किंचिद् मम व्यवहरतः सम्पत्स्यते, तत् सर्वं चैत्यद्रव्यं ज्ञेयमिति । इत्यभिग्रहो यावज्जीवमभूदिति ॥ ४०८ ॥६॥
2
।।४५३ ।।