________________
वितभोजनः 'छम्मास'त्ति बोधिलाभकालात् षण्मासान् यावज्जीवित्वा 'काल'त्ति कालं कृत्वा ब्रह्मसुरो ब्रह्मलोके देवतया उत्पन्न इति । तत्रापि तीर्थकरभक्तिर्महाविदेहादिषु नन्दीश्वरादित्येषु च सततमेव भगवतामहतां सर्वजगज्जीववत्सला
नामपारकरुणारसक्षीरनीरधीनां स्मरणमात्रोपनीतप्रणतजनमनोवाच्छितानां भक्तिर्वन्दनपूजनधर्मश्रवणादिरूपा समासीत् । ।।४५१॥ कालेन ततश्च्यवनम् । चम्पायां पुरि चन्द्रराजसुत: समुत्पन्न इति ॥४००।६।।
समुत्पन्नस्य च तस्य बालस्य सतः साधुदर्शनमभूत् । दृष्टेषु च तेषु भवान्तरसंस्कारात् प्रीतिः प्रतिबन्धः, स्मरणं पूर्वह भवस्य, अधतिश्चरणरक्षणरूपा तद्विरहे साधुदर्शनाभावे समजनि । ततः पितृभ्यां प्रियसाधुरेष इति नाम कृतम । वर्द्ध
ने बालभावपरित्यागरूपे प्रव्रज्या सावुप्रव्रज्या तस्यां सम्पन्नायां सत्यांमभिग्रहग्रहणं यथा सर्वाङ्गमया साधुविनयः o कर्त्तव्य इति ।।४०१।।७।।
परिपालनमभिग्रहस्याराधना पर्यन्ते । 'सुक्काई' इति शुक्रादिषु देवलोकेषु यथाक्रमेण परिपाट्याधिकाधिकसंयमशुद्धिवशादुपपातोऽभूत् । पर्यन्तभवे सर्वार्थागमप्रव्रज्यासेवना चैव विज्ञेया-सर्वार्थाद् विमानात सर्वविमानमालामौलिमाणि
क्यकल्पाद् इहागमनम् । तत्र च प्रव्रज्या। तस्यामपि च समुपलब्धकेवलालोकस्यास्य सिद्धिगमनमभूदिति । व्याख्यातं पण साधुप्रद्वेषी क्षुल्लक इति ॥४०२॥८॥
... अथ चैत्यद्रव्योपयोगी संकाश इति व्याख्यायते । तत्रIN संकासु गंधिलावइ सक्कवयारम्मि चेतिए कहवि । चेतियदग्ववओगी पमायओ मरण संसारो ॥४०३॥१॥
॥४५१।।