________________
उपदेशपदा
नम् । मृतस्य च नरकेषु सप्तसु रत्नप्रभापृथिवीप्रभृतीषु उपपातो जन्म च बभूव । कुत्सिततिर्यगभ्यः "अस्सप्णी IX रुद्रक्षुल्लकमहाग्रंथ पढम" इत्यादिग्रन्थोक्तेभ्यः सकाशात्, कीदृशेभ्यः, तथा तथा दाहवाहबन्धनोत्कर्त्तनादिभिः प्रकारैर्दुःखप्रचुरेभ्यः
निदर्शनम् ॥ ३९६ ।। २ ।।
एकेन्द्रियेषु पृथिवीकायिकादिषु प्रायो बहून् वारान कायस्थितिरसंख्योत्सप्पिण्यवसप्पिण्यादिरूपा तस्य समभूत् ॥४५०11
॥३९७॥३॥ - बर्बरा बर्बरकुलवासिनो म्लेच्छाः, पुलिन्दा नाहलाः पर्वताश्रयवासिनः तरुपत्रप्रावरणा म्लेच्छा एव, चण्डालचर्मकाररजकदासभृतकास्तु प्रतीतरूपा एव, ततस्तेषु । तदनन्तरं चूर्णपुरे श्रेष्ठिसुतः समुत्पन्नः । तरुपत्रप्रावरणम्लेच्छादिजन्मसु तत्कर्मनिष्ठापनं साधुप्रद्वेषप्रत्ययोपार्जितं लाभान्तरायदौर्भाग्यादिकर्मानुबन्धव्यवच्छेदः संजात इति ।। ३९८ ॥ ४॥ व तत्र च जन्मनि तीर्थकरस्य भगवतः कस्यचिद् योगे पृच्छा पूर्वजन्मवृत्तान्तविषया तेन कृता । तदनु कथने भग
वता, सम्बोधिः पुनर्बोधिलाभरूपः समुद्घटितः । जातवैराग्यश्च पप्रच्छ-किमिह साधुप्रद्वेषापराधे प्रायश्चित्तमुक्तरूपं विधेयम् । भगवानाह-तबहुमानस्तेषां साधूनामात्मापेक्षया बहुत्वेन मननं प्रायश्चित्तमिति । ततः पञ्चशतवन्दनाभिग्रहः पञ्चानां साधुशतानां प्रतिदिवसं वन्दनार्थोऽभिग्रहो गृहीतो विनयेन साधुविषये कर्त्तव्य इति ॥३९९॥५॥
कथमप्यसम्प्राप्तावभिग्रहस्य 'अभुंज'त्ति तद्दिनेऽनपानपरित्यागस्तरय जायते। एवं चासौ स्थिरप्रतिज्ञः प्रायेणानुपजी