________________
॥४४९॥
('परिवालण आराहण सुक्काई जहकमेण उववाओ । सम्वत्थागम पव्वज्जसेवणा सिद्धिगमणं ति ॥४०२॥८॥) .
इह क्वचिद् गच्छे स्वस्थसलिलोज्ज्वलातुच्छसाधुसमाचारे, अत एव समुच्छिन्नस्वपक्षपरपक्षमतसर्वक्लेशे नभस्तल इव स्फुरितविमलमङ्गले मणीमण्डलमध्यापलब्धशुद्धप्रसिद्धिबुधे देवमानवमान्यगुरौ प्रपंचितकाव्ये पूर्वविशुद्धानुष्ठानोऽपि पर्यायेण राहुरिव स्वभावादेव मलिनप्रकृतिरेको रुद्रनामा क्षुल्लकः समभूत् । स च तेषु तेषु साधुसमाचारेषु प्रमाद्यन स्मारणवारणनोदनप्रतिनोदनादिभिरनवरतमपरसाधुभिः शिक्षापणायां क्रियमाणायां साधुप्रद्वेषी शिक्षापकसाधुविषये तीव्रमत्सरः समजायत । अन्यदा च तेन सर्वमपि तं गच्छमुपहन्तुमिच्छता पापेन पानभाजने विषं निक्षिप्तम् । तस्मिश्च निक्षिप्ते सति सह देवेन हिताहितचिन्तकेन वर्त्तते यो गच्छः स सहदेवस्तद्भावरतत्त्वं तत समभूत । कथम् । आलुका हस्ते आलुकायां भाजनविशेषे साधुभिर्जलादानार्थं हस्ते प्रसारिते सति साधना निवेदना कृता आकाशान्वितया वाचा, यथा मा गृहीततज्जलं, विषदोषदूषितत्वादस्य केनेदमसमंजसमाचरितमिति विमर्शब्याकुलेषु साधुषु देवताकथना च संजाता, यथा, रुद्रक्षुल्लकेनैतदनुष्ठितमिति । ततो 'निच्छूढो'त्ति गच्छान्निष्काशितः स्थूलापराधत्वात् तस्य। | तदुक्तम् -"तंबोलपत्तनाएण माहु सेसावि उ विणासेज्जा । निज्जूहंति तं तू मा अनोवि तहा कुज्जा" इति ॥ ३९५ ॥१॥ ___ गच्छानिष्काशितस्य च तस्योन्निष्क्रमणं दीक्षात्यागः । ततो व्याधिर्जलोदरादिरूपः, मरणं प्राणत्यागलक्षणं सम्प
१ इयमपि गाथा सर्वेष्वस्मत्समीपस्थेष्वादशंपुस्तकेषु नास्ति, टीकाव्याख्यानानुरोधेन तु म्यात्र लिखिता ।
COM
४९ ।
MO