________________
शुद्धयो
गे दुगता नारी
उपदेशपा
प्राग्वत् ॥१०२५।। वैशसमेव दर्शयति-मण्डूकसर्पकुरराजगराणां क्रूरं दारुणं परम्पराग्रसनं दृष्ट्वेत्यनुवर्तते । तथा महापथ
हि-मण्डूकं सर्पण, सर्प कुररेण पक्षिविशेषेण, कुररं चाजगरेण ग्रस्यमानं ददर्श । ततः परिभाव्यवं मण्डूकादिन्यायेन लोकं सर्वजनपदगतं हीनादिभेदं हीनमध्यमोत्तमभेदं परस्परया ग्रस्यमानं प्रत्येकबुद्धो जातः। इतिः प्राग्वत् ।।१०२६।।
यथा परिभावितवांस्तथा चाह-मण्डूक इव लोको हीनो जातिकुलविभवादिना इतरेण बलवता पन्नगेनेवात्र जगति ॥८२४॥
ग्रस्यते सपीडः सन्नुपजीव्यते, सेाऽपि कुररसमानेनान्येन बलवत्तरेण ॥१०२७॥ सेाऽपि च बलवत्तरो नात्र स्ववशो यस्मादजगरकृतान्तवशग:-अजगराकारवशवर्ती । इत्यस्मात् कारणादेवंविधेऽपि लोके विषयप्रसंगो विषयसुखगृद्धिलक्षणो महामोहः परममूर्खत्वलक्षणः ।।१०२८।। इत्येवं चिन्तयित्वा भयं मृत्युलक्षणं सम्यक् संजातचरणपरिणामो राज्यं त्यक्त्वा, तथेति समुच्चये, जात. क्रमेण श्रमणः शमितपापः ॥१०२९॥ सिद्धश्च केवलिश्रियं परमां संप्राप्याऽयोध्यायां शक्रावतारनाम्नि परमशिवे परमकल्याणहेतुत्वाच्चैत्येनोपलक्षिते उद्याने ।।१०३०।। दुर्गतनारीउदाहरणं समाप्तम् ॥
अण्णेवि एत्थ धम्मे रयणसिहादी विसुद्धजोगरया । कल्लाणभाइणो इह सिद्धा गे महासत्ता ।।१०३१।।
अन्नेवीत्यादि । अन्येऽप्यत्र जैनधर्मे रत्नशिखादयो रत्नशिखप्रागुक्तसुदर्शनश्रेष्ठिप्रभृतयो विशुद्धयोगतः सर्वोपाधिशुद्धानुष्ठनासक्ताः कल्याणभागिनः संतः सर्वकालं सिद्धा निष्ठितार्थाः संजाताः, अनेके महासत्त्वा: ।। तत्र रत्नशिखकथानकमेवं श्रूयते;. अत्थि इहेव जंबुद्दीवे दीवे भारहे वासे अद्धचक्कोव सहलहरो (हलहरो) इव सगोविंदा गोविंद इव गरुडासणसु
॥८२४॥