________________
।।८२३॥
| तेन प्रयुक्तावधिना पूर्वभवानुभूतमवगम्य जिनवन्दनाथं तेनागमने कृते 'एष देवः सा स्त्री' इति पुनरपि भगवता निवेदिते विस्मयो लोकानां समभूत्, यथा-अहो पूजाप्रणिधानमात्रेणापि कथममरतामवाप्यमिति । ततो भगवता गंभीरा धर्मकथा कर्त्तमारब्धा यथा स्तोकोऽपि शुभाध्यवसायो विशिष्टगुणपात्रविषयो महाफलो भवति ॥१०२१॥ यत एकोउप्युदकबिन्दुर्जलावयवरूपो, लिंगव्यत्ययः प्राकृतत्वात्. यथा प्रक्षिप्तो महासमुद्रे स्वयंभूरमणादौ जलराशौ जायते अक्षत आश्रयशोषाभावादक्षयः, एवं पूजापि, हुः पूर्ववत्, वीतरागेष्वर्हत्सु । इति ॥१०२२।। तथा उत्तमगुणेषु प्रधानगुणेषु जिनेषु, वीतरागत्वादिषु वा जिनगुणेषु बहुमानपक्षपात उत्तमगुणबहुमानः स पूजया वीतरागाणां भवतीति सम्बन्धः, पूजकस्येति गम्यते । तथा पदमवस्थानमुत्तमसत्त्वमध्यकारे प्रधानप्राणिनां प्रधानाशयविशेषाणां वा जिनगणधरनाकिनरनायकादीनां मध्ये ; तथा, उत्तमधर्मप्रसिद्धिः प्रधानधर्मस्य पूजाकाले प्रकृष्टपुण्यकर्मबंधरूपस्याशुभकर्मक्षयरूपस्य च कालान्तरे क्रमेण यथाख्यातचारित्ररूपस्य च निष्पत्तिर्भवति । अथवा उत्तमधर्मप्रसिद्धिजिनशासनप्रकाशः पूजयाऽभ्यर्चनेन वीतरागाणां जिनेन्द्राणाम् ॥१०२३।। प्रस्तुतमेवाह--एतेन बीजेन पूजाप्रणिधानलक्षणेन दुःखानि दारिद्र्यादीन्यप्राप्य भवगहने संसाराण्येऽत्यन्तोदारभोगः--अतिप्रधानशब्दादिविषयसुखः सन् सिद्धोऽसावष्टमे मनुष्यजन्मनि । एते चाष्ट भवाः सप्तभिर्देवभवरन्तरिताः पृथगेव ग्राह्याः। अन्यथोभयजन्मगणनायामष्टमो देवभव एव | स्यात् । न च तत्र सिद्धिः संभवतीति ।।१०२४।। यथा चाष्टमजन्मनि सिद्धस्तथाह-कनकपुरे कनकध्वजो राजा भूत्वा शरत्क्षण इन्द्रोत्सवस्तदर्थं नगराद् बहिनिर्गमने कृते दृष्ट्वा वैशसमसमंजसमिदं वक्ष्यमाणं जातः प्रत्येकबुद्धः । इतिः
1८२३॥