________________
शुद्धयोगे
दुर्गता
नारी
मागधोपगीतगुणगणे भेरीभांकारभरिताम्बरतले नरपतौ, तथा द्विजवरक्षत्रियवैश्यादिके पुरजने गन्धधूपपुष्पपटलप्रभृति महाग्रंथः
पूजापदार्थव्यग्रकरकिंकरीनिकरपरिगते विविधवसनाभरणरमणीयतरशरीरे नगरनारीनिकरे च तद् वन्दनार्थं प्रचलिते सति, एकया वृद्धदरिद्रयोषिता जलेन्धनाद्यर्थ बहिनिर्गतया कश्चिन्नरः पृष्टः, यथा-क्वायं लोक एकमुखस्त्वरितपद
प्रचारः प्रचलितो विलोक्यते ? । तेनोक्तं--जगदेकबान्धवस्य जन्मजरामरणरोगशोकदौर्गत्यादिदुःखच्छिदुरस्य ॥८२२॥
श्रीमतो भगवतस्तीर्थकरस्य वंदनपूजनाद्यर्थम् । ततस्तच्छवणात् तस्या भगवति भक्तिरभवत् । अचिन्तयच्चाहमपि भगवतः पूजाद्यर्थ यत्नं करोमि । ततः सा पूजाथिनी सती एवं विचिन्तयति-अहो ! अहमतिदुर्गता पुण्यरहिता विहितपूजांगवजिता । इतिः प्रागवत् । अतोरण्यदृष्टानि मुधालभ्यानि तथाप्रकाराणि यानि सिन्दुवारकुसुमानि तेषां स्वयमेव ग्रहणं कृत्वा भक्तिभरनिर्भरांगी, अतो 'धन्या पुण्या कृतार्था कृतलक्षणाहं सुलब्धं मम जन्म जीवितफलं चाहमवाप्ता' इति भावनया पुलककंटकितकाया प्रमादजलप्लवप्लावितकपोला भगवन्तं प्रति गमनमाचरन्ती समवसरणकाननयोरन्तर एव वृद्धतया क्षीणायुष्कतया च झटिति मरणमुपगता। ततोऽसावविहितपूजापि पूजाप्रणिधानोल्लसितमानसतया देवत्वमवाप्तवती ॥१०२०।। ततस्तस्याः कडेवरमवनिपीठलुठितमवलोक्यानुकम्पापरीतान्तःकरणो जन उदकेनाम्भसा सेचनमकरोत् । ततस्तामपरिस्पन्दामवलोक्य लोकस्य शंका किमियं मच्छिता उत मृतेत्येवंरूपा आरेका सम
जायत । ततो यदा माह उक्तरूपेऽर्थे निर्णयाभावरूपो न निवर्त्तते तदा भगवतः पृच्छा कृता, यथा-भगवन्नसौ वृद्धा 10 किं मूच्छिता उत मृतेति । ततः कथना च कृता भगवता, यथा-मृताऽसौ देवत्वं चावाप्ता । ततः पर्याप्तिभावमुपग
॥८२२॥