SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ शुद्धयोगे दुर्गतानारी उपदेशपदः स्तयोरजनि । तदनु सुरेषु वैमानिकेषु भोगा: सम्भूताः। कालेन च च्यवनं देवलोकात् । सूरतेजोजीवः क्वचिन्नगरे वणि- महाग्रंथ कसतः सम्पन्नः, देव्याश्च लंखगृहे जन्म पुत्रीभावेन । कलाग्रहणमुभाभ्यामपि कृतम् ॥१०१६।। द्वयोरपि प्राप्ततारुण्ययोरन्यत्र स्त्र्यन्तरे पुरुषान्तरे चारागो रागाभावः सम्पन्नः । कालेन च गच्छता कदाचिद् द्वयोरपि परस्परं दर्शनम भूत् । ततश्चक्षुरागे दृष्टिरागलक्षणे कथंचिदनिवर्तमाने द्वयोरपि परिणयनमजायत । ततश्च गर्दा परस्परायोग्यसम्बन्धा॥८२०।। पवादरपा सर्वत्र प्रवृत्ता । तां चावधार्येव हिण्डनं देशान्तरपर्यटनलक्षणमारब्धं ताभ्याम् । प्रस्तावे च यतिदर्शनाच्छुद्धसमाचारसाधुसमवलोकनात् स्मरणेन प्रागनुभूताया जाते बोधिश्च धर्मप्राप्तिलक्षणः समजनि तयारिति ।।१०१७।। इय थोवोवइयारो एसो एयाण परिणओ एवं । सुद्धे पुण जोग्गम्मि दुग्गयनारि उदाहरणं ॥१०१८॥ इत्येवं स्तोकोऽप्यतीचारो रागद्वेषलक्षण एष यः प्रागुक्तः एतयोः परिणत एवमनुचिताचारहेतुतया । तस्मात् सर्वथा शुद्धाचारपरेण मतिमता भाव्यमिति । अत्र शुद्ध पुनर्योगे समाचारे दुर्गतनारी वक्ष्यमाणलक्षणा उदाहरणं वर्तते इति ॥१०१८॥ एतदेव संक्षेपतस्तावदाह ;सुव्वति दुग्गयनारी जगगुरुणो सिंदुवार कुसुमेहिं । पूजापणिहाणेणं उववन्ना तियसलेोगम्मि ॥१०१९।। श्रूयते जिनागमे दुर्गतनारी दरिद्रा जरती स्त्री जगद्गुरोः सिन्दुवारकुसुमैनिगुण्डीपुष्पैः कृत्वा यत् पूजाप्रणिधाIN नमभ्यर्चनाभिलाषस्तेनोपपन्ना त्रिदशलोके ।।१०१९॥ एतामेव गाथां गाथैकादशकेन व्याचष्टे :-- कायंदो ओसरणे भत्ती पूजत्थि दुग्गयत्ति ततो । तह सिंदुवारगहणं गमणंतरमरण देवत्तं ॥१०२०॥ ।।८२०॥
SR No.600269
Book TitleUpdeshpad Mahagranth Satik Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1991
Total Pages448
LanguageSanskrit
ClassificationManuscript
File Size8 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy