________________
॥४४७
यइ पुणोवि तब्भाववद्धिकरं ॥१॥" इति वचनप्रामाण्यात् कथञ्चिद् लब्धस्य पुनरनुशीलनमभ्यासो भवत्यभिलषितहेतुरशुभानुबन्धन्यवच्छेदकारणम् । दृष्टान्तं तदुपनयं चाह-सत प्रस्तुतव्याधिनिग्राहकत्वेनास्खलितसामर्थ्यमौषधमुक्तरूपं यथा तथा एषोऽपि तदभ्यासः । तथाहि-यथाऽऽतुरस्य कुतोऽपि प्रमादात क्रियापचारे सञ्जाते, अनुभूते च तत्फले, पुनस्तक्रियाभ्यास एव व्याधिव्यवच्छेदाय जायते, तथा प्रस्तुतक्रियापि तथाविधप्रमादासेवनादपचारमानीता सत्यपचारविपाकानूभवान्तरमभ्यस्यमानाशुभानुबन्धव्यवच्छेदफला जायत इति ॥३९१।।
अयं चार्थः कथञ्चित् प्रागेव उक्त एवास्ते, इति तं प्रस्तुते योजयन्नाह;- . पडिबंधविचारम्मि य निदंसिओ चेव एस अत्थोत्ति । ओसहणाएण पुणो एसो चिय होइ विष्णेओ ॥३९२॥
प्रतिबन्धविचारे च "पडिबन्धोवि य एत्थं सोहणपंथम्मि संपयट्टस्स" इत्यादिग्रन्थेन प्रागभिहिते पुननिदर्शितश्चैव प्रकाशित एव एषोऽर्थो जो "अवयारवियारम्मि" इत्यादिना ग्रन्थेनोक्तः । इति वाक्यपरिसमाप्तौ। यद्यवं, पुनर्भणनमपार्थकमापद्यत इत्याशंक्याह-औषधज्ञातेन मेघकुमारादिदृष्टान्तेभ्यो दृष्टान्तान्तरभूतेन पुनद्वितीयवारमेष एवान्यूनाधिको भवतीति ज्ञेयम् । न चैवं कश्चिद् दोषः, उपदेश्यत्वादस्य । यथोक्तम्-"सज्झायझाणतवओसहेसु उवएसथुइपयाणेसु । संतगुणकित्तणेसु य न हंसि पुणरुत्तदोसा उ ॥१॥” इति ॥३९२।। एतदेव समर्थयन्नाह ;-- एत्तो उ इओ वीरा कहिंचि खलिएवि अवगमे तस्स । तह एयजोगउ च्चिय हंदि सकज्जे पट्टिसु ॥३९३।।
अत एव तदभ्यासस्याभिलषितहेतुत्वाद् हेतोरितोऽशुभानुबन्धाद् वीराः शिवशर्मस्पृहावन्तो रुद्रक्षुल्लकादयः, कथ
॥४४७॥
व