________________
भावाभ्यासेनरसुन्दर रज्ञातम्
उपदेशपदः र्घाटनोपक्रमेऽपि काचित् कार्यसिद्धिरस्तीति युक्तस्ताम्रलिप्तीगमः। ततः प्रचलिते द्वे अपि तां प्रति । प्राप्ते च क्रमेण महाग्रंथः
तत्समीपे। तत उद्याने राज्ञः स्थापना देव्या कृता । नगराभ्यन्तरे च देवीप्रवेशे जाते नृपेण नरसुन्दरेणागमनं भगिनी भर्तुः प्रत्युत्थानायारब्धम् ॥९९०॥ तस्य च मालवमण्डलभर्तुः तत्क्षणमतीव बुभुक्षा समजनि । ततः कच्छके कर्कटी
निमित्तं प्रविष्टः। तद्रक्षाकारकेण च स्तेनश्चौरोऽयमपद्वारप्रविष्टत्वादिति लकुटेन मर्मणि हतः। ततो मोहो म सञ्जा८१ ताऽस्य। राजागमे तुरगखरखुरोत्खातक्षोणीरजः पुंजान्धकारितासु दिश्वत्यन्तक्षामीभूते सैनिकलोकदृष्टिसञ्चारे 'अब
चक्क कोट्टाए' इति आवर्तायां राजपथबहिर्भागरूपायां पतितस्य तस्य केनाप्यदृश्यमानस्य नरसुन्दररथचक्रेण खड्गाद्प्यतितीक्ष्णाग्रभागेनातिसत्वरं गच्छताऽन्तीराजस्य कुट्टायाः प्रतीतरूपाया अपनयनं छेदनमकारि ॥९९१।। राज्ञो नरसुन्दरस्यादर्शनमवन्तिराजानवलोकनं यदा जातं तदा मार्गणं गवेषणं तस्य तेन कृतम् । यदा तथापि न लब्धः, ततो
देव्याह्वानं देवीसमाकारणमकारि । ततो निपुणमार्गणा विहिता । दृष्टश्च कथञ्चिद् बहलधूलीपटलावलुप्तसकलदेहः । Vol तस्मिश्च तथावस्थे उपलब्धे देव्याः शोकः समजनि । ततोऽग्निर्वैश्वानरो निजोत्सङ्गारूढं तं विधायानया साधितः । ततो
राज्ञस्तु नरसुन्दरस्य पुनर्भवान्निर्वेदः सम्पन्नः ॥९९२॥ कथमित्याह-धिग् निन्द्या वर्तते भवस्थितिः, अचिन्त्येवंविधानर्थसार्थसम्पादिका । तदन्वेवानशनं सर्वाहारपरिहारलक्षणं तेन कृतम् । तथा तस्या भवस्थितेनिरूपितायाः सकाशाद् 'मा' इति प्रागवत्, आगमे सर्वज्ञवचने कुतोऽपि धार्मिकादाकणिते प्रणिधानं श्रद्धानरूपं संज्ञानम् । अनशनपर्यन्ते च मरणम् । ब्रह्मोत्पादो ब्रह्मलोके देवत्वलाभलक्षणः समभूत् । अवसरणे समवसरणलक्षणे स्वामिनस्तीर्थकरस्य कस्यचिद
॥८१०॥