SearchBrowseAboutContactDonate
Page Preview
Page 403
Loading...
Download File
Download File
Page Text
________________ ॥८०९॥ रायादसण मग्गण देवी आहवण णिउणमग्गणया । दिट्रे देवीसोगो अग्गी रणो उ णिव्वेओ ।।९९२।। धी भवठिई अणसणं इमीए मो आगमम्मि पणिहाणं । मरणं बंभववाओ ओसरणे सामिपासणया ॥९९३॥ दसणसंपत्ती भवपरित्तया सुहपरंपरज्जिणणं । गइदुगविगमा मोक्खो सत्तमजम्मम्मि एयस्स ।।९९४।। __नगरी, तुः पादपूरणार्थः, ताम्रलिप्तो नाम समासीत् । तां च राजा नरसुन्दरः पालयामास । स्वसा भगिनी तस्य नरसुन्दरस्य राज्ञो बन्धुमती नामा भूता। सा च परिणीताऽवन्तीराजेन मालवमण्डलाखण्डलेन पृथ्वीचन्द्रनाम्ना विशालायामुज्जयिन्यामिति ।।९८८।। तस्य च तस्यामतीव रागोऽजनि क्षणमपि विरहं न सहते मद्यपानप्रवृत्तश्च जातः । ततोऽतिरागपानाद् व्यसने सति राजकार्यचिन्तावधीरणायां प्रमत्तीभूतेषु देशचिन्ताधिकारिषु, समुज्जृम्भितेषु च सर्वतो निर्भयनीयमनस्स मलिम्लुचेषु, लुण्टयमानासु च सीमासु सीमापालभपालैः, एवं मण्डलनाशे जायमाने परिचितितं सचिवेन यथा "त्रस्तमुद्धान्तहृदयं हाहाभूतमचेतनम् । क्षणाद् विनश्यत्यखिल यदि राजा न रक्षति ॥१॥" तथा, राजमूलाः सर्वाः प्रकृतयः, अमूलेषु तरूषु किं कुर्यात् पुरुषयत्नः" इति राजा च धार्मिकः कुलाचाराभिजनविशुद्धिः प्रतापवान् न्यायानुगतश्च कार्य इति । इति विचिन्त्यान्यस्य तत्पुत्रादेस्तत्पदे स्थापना कृता । ततस्तस्य बन्धुमत्या सह शायि| तस्य परिष्ठापनं महति निर्जनवने समुज्झनं सचिवः कारयामास । बद्धश्चोत्तरीये लेखो यथाऽनागमनं तव गुणावहमिति ।।९८९।। ततो मदविगमे जाते दृष्टे च लेखे कोपः समुदपादि, यथा-अहं निजेनैव परिजनेन राज्यान्निर्वासितः, युज्यते च तन्निर्घाटनम् । ततो देवी बन्धुमती विज्ञपनमकरोत्, यथा-देव ! क्षीणपुण्यानामेवेयमवस्था सम्पद्यते, तन्न तन्नि ॥८०९॥
SR No.600269
Book TitleUpdeshpad Mahagranth Satik Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1991
Total Pages448
LanguageSanskrit
ClassificationManuscript
File Size8 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy