________________
॥८०९॥
रायादसण मग्गण देवी आहवण णिउणमग्गणया । दिट्रे देवीसोगो अग्गी रणो उ णिव्वेओ ।।९९२।। धी भवठिई अणसणं इमीए मो आगमम्मि पणिहाणं । मरणं बंभववाओ ओसरणे सामिपासणया ॥९९३॥ दसणसंपत्ती भवपरित्तया सुहपरंपरज्जिणणं । गइदुगविगमा मोक्खो सत्तमजम्मम्मि एयस्स ।।९९४।। __नगरी, तुः पादपूरणार्थः, ताम्रलिप्तो नाम समासीत् । तां च राजा नरसुन्दरः पालयामास । स्वसा भगिनी तस्य नरसुन्दरस्य राज्ञो बन्धुमती नामा भूता। सा च परिणीताऽवन्तीराजेन मालवमण्डलाखण्डलेन पृथ्वीचन्द्रनाम्ना विशालायामुज्जयिन्यामिति ।।९८८।। तस्य च तस्यामतीव रागोऽजनि क्षणमपि विरहं न सहते मद्यपानप्रवृत्तश्च जातः । ततोऽतिरागपानाद् व्यसने सति राजकार्यचिन्तावधीरणायां प्रमत्तीभूतेषु देशचिन्ताधिकारिषु, समुज्जृम्भितेषु च सर्वतो निर्भयनीयमनस्स मलिम्लुचेषु, लुण्टयमानासु च सीमासु सीमापालभपालैः, एवं मण्डलनाशे जायमाने परिचितितं सचिवेन यथा "त्रस्तमुद्धान्तहृदयं हाहाभूतमचेतनम् । क्षणाद् विनश्यत्यखिल यदि राजा न रक्षति ॥१॥" तथा, राजमूलाः सर्वाः प्रकृतयः, अमूलेषु तरूषु किं कुर्यात् पुरुषयत्नः" इति राजा च धार्मिकः कुलाचाराभिजनविशुद्धिः प्रतापवान् न्यायानुगतश्च कार्य इति । इति विचिन्त्यान्यस्य तत्पुत्रादेस्तत्पदे स्थापना कृता । ततस्तस्य बन्धुमत्या सह शायि| तस्य परिष्ठापनं महति निर्जनवने समुज्झनं सचिवः कारयामास । बद्धश्चोत्तरीये लेखो यथाऽनागमनं तव गुणावहमिति ।।९८९।। ततो मदविगमे जाते दृष्टे च लेखे कोपः समुदपादि, यथा-अहं निजेनैव परिजनेन राज्यान्निर्वासितः, युज्यते च तन्निर्घाटनम् । ततो देवी बन्धुमती विज्ञपनमकरोत्, यथा-देव ! क्षीणपुण्यानामेवेयमवस्था सम्पद्यते, तन्न तन्नि
॥८०९॥