________________
८०७।।
नरेन्द्रेण कृता । ततो ललिताङ्गेन धनुर्विद्यया विद्याधरं जित्वा आगमः तस्याः कृतः । सा चागता अहिना दष्टा जीविता च गारुडवेदिना । ततः पितृचिन्ता कथमसौ वीवाहितव्या । ततस्तया शासनं कृतं ज्वलनकरणेनाग्निप्रवेश लक्षणेन यजन्मान्तरं तस्या या विभाषा प्रज्ञापना तद्रूपम् ॥ ९८० ॥ ततो ललिताङ्गस्याभ्युपगमः संवृत्तः । तता ज्वलने प्रज्वालिते चिताभ्रंशं कृत्वा पूर्वखातया सुरङ्गया निर्गत्य ऊढा सा तेन । इतिः प्राग्वत् । पित्रोस्तोषः संवृत्तः । प्रज्ञापना च शेषाणां कृता यथा कथमेकाऽनेकैः सह परिणाय्यते । भागा जाताः । कदाचिच्छरदभ्रोपलम्भः संवृत्तः । तत्र तद्विषया चिन्ता । निर्विण्णयाश्व तीर्थंकरसमीपे दीक्षा सम्पन्ना ।। ९८१ ।। ईशानदेवलेाके ततेो जन्म भागाश्च । तत्र च्यवनम् । तता राजसूता देवसेननामा जातः । कला गृहीताः, वयस्वांश्व संवृत्तः । एषा उन्मादयन्ती विद्याधरदारिका चन्द्रकान्ता नाम जाता । तस्याः श्रवणादिना गुणाकर्णनादिना रूपेण देवसेने तत्र रागो जातः ॥ ९८२ ॥ । 'विज्जाहखिसा माणुसो 'त्ति 'अणियत्तणे असमगो य' इति ततस्तस्यास्तद् गोचरे रागेऽनिवर्त्तमाने विद्याधरैः खिसा प्रारब्धा, यथा -- मानुष आकाशगमनादिलब्धिविकलो नरः असमकश्च विभवादिभिरसदृशोऽस्याः पतिश्चेतसि वर्त्तत इति । तत्र प्रतिच्छन्दके चण्डालीति नाम स्थापयित्वा तस्या रूपं दर्शितं तस्मै तथापि 'राग निवन्नाए वीवाहो' इति रागे नृपेन ज्ञाते वीवाहः कारितः ।। ९८३ ॥ भागो भूमिचरनगरगताया अपि तस्या विद्याधरसाधनैविद्याधरसत्कैः पुष्पताम्बूलवस्त्रादिभिः पित्रा सम्पाद्यमानैर्वृत्तः । ततो ना एकदा प्रतिचारिकाप्रमादात् प्रत्यग्ररूपाणि पुष्पादीनि सम्पन्नानि, तदा 'मिलाणा' इति म्लानादिभिः पुष्पप्रभृतिभिर्भोगः । तता सखीहासाद् यथा त्वं न पितृगैरव्या, कथमन्यथेयं पुष्पादीनामवस्थेति संवेगोऽर्हदागमनं
1120011