SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ ॥४४५॥ दर्शनादीनामुपलब्धसम्यग्दर्शननादीनामिदानीं तत्प्रतिपातवतामपि । ततः किमित्याह-तेषां प्राप्तदर्शनानामशुभानुबन्धो नापगतो न त्रुटितः, कथं नुः परिप्रश्ने, इतस्तु शुद्धाज्ञायोगादपि अशुभानुबन्धव्यवच्छेदकत्वेन भवद्भिः परिकल्पितादिति ? ॥३८७।। एवं च सति;एयापगमणिमित्तं कहं व एसो उ हंत केसिंचि । एयं मिहोविरुद्धं पडिहासइ जुज्जए कह णु? ॥३८८।। एतदपगमननिमित्तमशुभानुबन्धव्यवच्छेदकारणं, वथं वेत्यथवा, एष त्वेष एव शुद्धाज्ञायोगः, हन्तेति कोमलामत्रणे, केषांचिजीवानाम् । तत एतच्छुद्धानायोगादशुभानुबन्धव्यवच्छेदभणनं मिथः परस्परं विरुद्ध प्रतिभासते । न हि ये यत्कार्यकारिणो भावास्ते तदकारिणोऽपि भवन्ति, वृक्ष इव च्छायायाः । अन्यथा कार्यकारणव्यवस्थाविलोपप्रX सङ्गः । ततो युज्यते घटते कथं केन प्रकारेण भवदुक्तं, नुरिति वितर्कयामि ? ||३८८।। अत्र समाधिमाह ;र भण्णइ जहोसहं खलु जत्रोण सया विहाणो जुत्तं । तह वोच्छिंदइ वाहिं ण अण्णहा एवमेसोवि ।।३८९।। भण्यते उत्तरमत्र यथोषधं त्रिफलादिः, खलुरवधारणे, यत्नेनादरेण सदा सर्वावस्थासु विधानतः तदुचितानपानादिसेवनरूपाद् युक्तं हीनाधिकमात्रापरिहारेण समुचितं, तथेति विशेषणसमुच्चये, ततो यत्नेन सदा विधानतो युक्तं च समुपजीव्यमानं सद् रोगिणां व्यवच्छिनत्ति व्याधि कण्डूप्रभृतिकम्, न नैवान्यथोक्तक्रमव्यतिक्रमे । एवमौषधवद् एषोऽपि शुद्धाज्ञायोगोऽशुभानुबन्धव्याधिमिति ।।३८९।। ॥४४५॥
SR No.600269
Book TitleUpdeshpad Mahagranth Satik Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1991
Total Pages448
LanguageSanskrit
ClassificationManuscript
File Size8 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy