________________
नाकुशीलसाधुयोग्य प्रमादस्थान परिहारवतामपि किंपुनः सम्यग्दर्शनादिशेषगुणभाजा मित्यपिशब्दार्थः, अन्तरं प्रतिपतितप्रस्तुत गुणानां पुनर्लाभव्यवधानं समये जिनागमे भणितं निरूपितम् । कीदृशमित्याह - अनन्तकाल:, यथोक्तं-"कालमर्णतं च सुए अद्धा परियट्टओ य देसूणो । आसायणबहुलाणमुक्कोसं अंतर होई ||१|| " स पुनरनन्तकाल उपपद्यते, एवमशुभानुबन्धस्य रौद्रतायां सत्यामिति । नह्यवश्यवेद्य मशुभानुबन्धमन्तरेण प्रकृतगुणभंगे पुनर्लब्ध्या कियत्कालव्यवधाने ।। ४४४ ।। कश्चिदन्यो हेतुरस्तीति ।। ३८५॥ एतदेवभावयति ; --
ओ आरओवि हु असई बंधों ण अण्णहा होइ । ता एसो वि हु एवं णेओ असुहाणुबंधोत्ति || ३८६ ॥
उपदेशपद:महाग्रंथ:
ग्रन्थेरुक्तरूपादारतोऽपि तस्मिन्नभिन्नेऽपि सति कि पुनभिन्नग्रन्थो, अशुभानुबन्धतोऽनन्तसंसार इत्यपिशब्दार्थः, असकृद् अनन्तवारान् बन्धो ज्ञानावरणादीनां कर्मणां स्वीकारः, न नैवान्यथा शुभानुबंधं विना भवति अनुरूपकारणप्रभवत्वात सर्वकार्याणाम् । तत् तस्मादेषोऽप्यसकृदबन्धो न केवलं यतोऽसौ प्रवृत्त इत्यपिशब्दार्थ, हुः स्फुटम्, एवमशुभानुबन्धमूलत्वेन शेयोऽशुभानुबन्ध इति, कार्यकारणयोर्मृद्घटयोरिव कथंचिदभेदात् । तस्मात् कारणकृतस्य कार्यभूतस्य चाशुभानुबन्धस्य त्रोटने यत्नो विधेय इति ॥ ३८६ ॥
अथ परमतमाशंकमानमाह ; -
नणु सुद्धाणाजोगा आसि च्चिय पत्तदंसणाईणं । तेसिमसुहाणुगंधो णावगओ कहणु एत्तो उ ।। ३८७ ।।
नन्विति परपक्षाक्षमायां शुद्धाज्ञायोगो निरवकरपारगत वचनाराधनारूप आसीदेव वृत्त एव । केषामित्याह-प्राप्त
शुभाशुभानुबन्धवि
चारता
।। ४४४ ।।