SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ रुद्दो य इमो एत्थं चइयव्वो धम्ममग्गजुत्तेहिं । एयम्मि अपरिचत्ते धम्मोवि हु सबलो होति ॥३८३। रौद्रश्च दारुण एवायमशुभानुबन्धोऽत्र जगति त्यक्तव्यः परिहरणीयो निन्दागर्हादिनोपायेन । करित्याह-धर्ममार्ग युक्तः धर्ममार्गा धर्माराधनोपायाः साधुनावकसमाचारास्तत्समन्वितैः । एतस्मिन्ननुबन्धेऽपरिहृते धर्मः, प्रागुक्तोऽध॥४४३॥ मस्तावत्ततो भवत्येवेत्यपिशब्दार्थः, हुर्यस्मात् संबलकोऽतीचारपङ्कमालिन्यकल्मषरूपतामापन्नो भवति । अयमभिप्रायो -महति दोषानुबन्धे मूल गुणादिभंगरूपे विधीयमानोऽपि धर्मो न स्वरूपं लभते, अल्पातिचारानुबन्धे च भवन्नपि धर्मः शबलस्वरूप एव । अत एव पठ्यते-'पाडियसव्वसल्लो' इत्यादि ॥३८३।। इत्थं लौकिकमुदाहरणमभिधाय लोकोत्तरमभिधित्सुराह-- . लोउत्तरंपि एत्थं निदरिसणं पत्तदसणाईवि । असुहाणुबंधतो खलु अणंतसंसारिया बहवे ।।३८४॥ लोकोत्तरमपि न केवलं लौकिकमित्यपिशब्दार्थः, अत्राशुभानुबन्धे निदर्शनमुदाहरणम् । क इत्याह-प्राप्तदर्शनादयोऽपि लब्धविशुद्धसम्यक्त्वज्ञानचारित्रसम्यदोऽपि, कि पुनस्तद्विकलजीवा इत्यपिशब्दार्थः, अशुभानुबन्धत उक्तरूपात्, खलुरवधारणे, अनन्तसंसारिका अनन्तोत्सपिण्यवसप्पिणीप्रमाणः संसारो येषामस्तीति ते तथा बहवो भूयांस इति ॥३८४॥ एतदेव भावयति;चउदसपुव्वधराणं अपमत्ताणं वि अंतरं समए । भणियमणंतो कालो सो पुण उववज्जए एवं ॥३८५॥ चतुर्दशपूर्वधराणां समस्तश्रुतजलधिपरपारप्राप्तानाम् ऋषिविशेषाणाम्, अप्रमत्तानामपि च पुलाकबकुशप्रतिसेव ॥४४३।।
SR No.600269
Book TitleUpdeshpad Mahagranth Satik Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1991
Total Pages448
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy