________________
CH
वानप्रस्थ
उपदेशपदः वधानेन वर्तत इति न शक्यते तस्य समीपे गन्तुम् । तत आङ्गिरसेन पादलेपः समपितो यत्सामर्थ्याद् राजान्तिके महााग्रंथः
गन्तुं शक्यत इत्यस्मात् पादलेपाद् गमनमभूत् । नृपमार्गणाद् राज्ञः समीपात् प्रायश्चित्तस्य याच्या कृता। ततो राजा दिष्टः 'धम्मसत्थि'त्ति धर्मशास्त्रिभिर्मनुप्रभृतिमुनिप्रणीतधर्मशास्त्रपाठकः छेदस्तु छेद एव हस्तयोः प्रायश्चित्तमादिष्टम्, न
पूनरुपवासादि । लौकिकशास्त्रेषु हि येनाङ्गेन योऽपराधो विहितस्तच्छुद्धौ तदेवाङ्गं निगृह्यत इति ॥३८०॥३॥ ॥४४२॥ ततो हस्तच्छेदानन्तरमागमः प्रत्यावृत्तिराङ्गिरससमीपे । तेनोक्तम्-चीर्णव्रतोऽसि समाचरितप्रायश्चित्तस्त्वमिति वि
हिता वन्दना, भणितश्च नद्यां स्नानमाचरेति । तुः पादपूरणार्थः । तत्र च स्नातस्य 'हत्थुल्लुज्झाण'त्ति हस्तयोरुद्रोहणं पुनरुद्गम: सम्पन्नः । तेन च 'साहण'त्ति ज्येष्ठाय साधितं निवेदितं, यथा हस्तौ ममपुनरूद्भुती । तेनाप्युक्तं प्राणावुच्छवासनिःश्वासौ तयोरायामः सामस्त्येन निरोधः प्राणयामश्चित्तवृत्तिनिरोध इत्यर्थः, तस्मिन् मया कृते सति तथा
भावो हस्तयोस्ते सम्पन्नः ।।३८१।। ४ ।। R 'पुच्छ'त्ति पृच्छा कृता तेन किं न प्रथमं नदीनानात् तथा भावो विहितः? स प्राह-अशुद्धितोऽद्यापि तवाशुद्धित्वात् । यतस्त्वं व्रती इत्यस्मात् स्तोकस्खलनायामपि गुरुदोषो वर्तते, क्रियापथ्याहरणात् चिकित्साप्रवृत्तावपूथ्यासेवन
दृष्टान्तात् , न नैवान्यथा हस्तकर्तनमपि नदीनानमन्तरेणापति त्रुट्यत्यनुबन्धोऽपराधलव इति त्वं मया तदनुष्ठापित 0 इति ॥३८२।। ५॥
__ अनुबन्धमेवाश्रित्याह;