________________
।।४४१ ।।
तस्मिश्च समये निर्गमः स्वकीयवनात् कुशादिहेतु कुशादयों दर्भकन्दमूलफलजलेन्धनादयस्तापसजनयेाग्यसमाहरणीयत्वेन हेतवो यत्र तत्तथा क्रियाविशेषणमेतत् । तस्य ज्येष्ठ भ्रातुः इतरप्रतीक्षणमेवेतरेण तत्रस्थेनैव विलम्बनमकारीति ।।३७८ ।। १ ।।
'कालाइकम'त्ति आगमन कालातिवाहने सम्पन्ने सति बुभुक्षा गालवस्य समजायत । ततस्तेन ज्येष्ठवनाद् दाडिमग्रहः कृत: भुक्तानि च तानि । मुहूर्त्तान्तरादागमस्तु प्रत्यावृत्त्य स्ववने ज्येष्ठस्य इतरस्य लघोस्तं प्रति वन्दना बभूव । 'पासण 'त्ति दृष्टं च लुप्तदाडिमफलं स्ववनम् पृच्छा च कृता तेन केनेदमित्थं विहितमिति । कथितं चानेन यथा मयेति । ततः आङ्गिरसेनोचे । इतः स्वयमेव दाडिनग्रहणादत्तादानाद्, यद्यपि "पावं छिदइ जम्हा प यच्छित्तं तु भई तम्हा पाण वावि चित्तं विसोहए तेण पच्छितं ॥१॥ इति वचनाद् अपराधशुध्द्य पायभूतमनुष्ठानं प्रायचितमुच्यते, तथाप्युपचारात् प्रायश्चित्तशोध्योऽपराधोऽपि प्रायश्चित्तशब्दवाच्यः, ततः प्रायश्चित्तमस्यास्तीति प्रायश्चित्ती भवानिति कृत्वा नो नैव वन्दे प्रतिवन्दे प्रतिवन्दनं करोमि ते । निशीथेऽप्युक्तम्- "मूलगुणउत्तरगुणे संथरमाणावि जे विसीति । ते नहु हुंत वंदणिज्जा ।" इति ।। ३७९ ।। २ ।।
गालव उवाच - दत्त यूयमेवेदं मे प्रायश्चित्तम् । आंगिरसः - गच्छ एतन्मण्डलाधिपतिनगरे नृपं राजानं ' मग्गाहित्ति याचस्व शुद्धिम्, दुष्टनिग्रहशिष्टपरिपालनयास्तस्यैव सर्वाश्रमगुरुत्वेनाधिकारित्वात् । गालवः स राजा दूरे महता व्य१ क. 'यद्यपीत्याह पावं छिवत्ति पावं छिदइ; ख. ग. घ. 'यदीत्याह पावं छिदति पावं छिदइ'.
XX
। ४४१ ।