________________
वानप्रस्थ दृष्टान्त
उपदशपदः सम्यग् ज्ञानदहनदह्यमानमूलास्तु त्रुटितसकलफलदानशक्तयो वन्ध्यभावापन्ना असत्कल्पा एव जायन्त इति ॥३७६।। महाग्रंथः
एवं सति यत्सिद्धं तद्दर्शयति;एत्तो च्चिय एयम्मी जत्तोऽतिसएण सेसगाणं पि । एत्थ दुवे सज्झिलगा वाणप्पत्था उदाहरणं ॥३७७।।
इत एवाशुभानुबन्धस्य भवपादपमूलत्वाद् एतद्व्यवच्छेदे च भवस्य व्यवच्छिन्नत्वाद् हेतोः, एतस्मिन्नशुभानुबन्ध|४४०।। व्यवच्छेदे यत्नो निन्दागर्हादिना प्रयत्नोतिशयेन शेषानुष्ठानमपेक्ष्य शेषकाणामपि तीर्थान्तरीयाणां वर्तते, किंपुनरस्माकं
जैनानामित्यपि शब्दार्थः । अत्रानुबन्धव्यवच्छेदे द्वौ सज्झिलको भ्रातरौ वानप्रस्थौ "ब्रह्मचारी गृहस्थश्च वानप्रस्थस्ततो यतिः ।" इत्याश्रमक्रमापेक्षया तृतीयाश्रमवत्तिनौ वानप्रस्थापनवन्तावुदाहरणम् ।।३७७।। अंगिरसगालवा वाणपत्थ लहुगस्स जेट्टवणगमणं । निग्गम कुसादिहेउं तस्सियरपडिच्छणं चेव ।। ३७८ ॥१॥ कालातिक्कम भुक्खा दाडिमगह आगमो उ इतरस्स । वंदण पासण पुच्छा एत्तो पच्छित्ति णो वंदे ॥३७९।।२॥ देह इमं गच्छ निवं मग्गाहि स. दूर पादलेवो त्ति । यमणं निवमग्गण धम्मसत्थि च्छेओ उ हत्थाणं ॥३८०॥३॥ तत्तो आगम चिण्णव्वतोसि वंदण णतीए ण्हाणं तु । हत्थुल्लुब्भण साहण पाणायामे तहा भावो ।।३८१॥४॥ पुच्छा कि णो पढमं असुद्धितो तं वतित्ति गुरुदोसो । किरियापत्थाहरणा ण अन्नहाऽवेति अणुबंधो ॥३८२।।५।।
इह क्वचिद् मागधादी मण्डले आङ्गिरसगालवी ब्राह्मणसुतौ परिपालिताद्याश्रमद्वयो सन्तौ वानप्रस्थावभूताम् । अन्यदा लघुकस्य भ्रातुर्गालवनाम्नः कुतोऽपि प्रयोजनात् स्ववनषण्डाज्येष्ठवनगमनमाङ्गिरसवनावतरणं समजायत ।।
IAl॥४४०॥