SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ ॥४३९॥ ज्ञानवरणोदयाद् विघातेऽपि श्रद्धादिभावतः "तमेव सच्चं नीसंक जं जिणेहि पवेइयं” इत्यादेः श्रद्धानस्य, आदिशब्दाद् गीतार्थप्रज्ञापनीयत्वस्य च भावात् तुच्छमपि ज्ञानं सम्यग्रूपमेव, परिपूर्णलाभहेतुत्वात् । यथा हि शुक्लपक्षक्षपापतेरतितुच्छोऽपि प्रतिपत्तिथावुज्वलतालाभः सम्यगेव, परिपूर्णतदुज्ज्वलभावलाभस्याचिरादेव सम्पत्तिनिमित्तत्वात् ; तथा प्रकृतज्ञानमपि क्रमेण केवलज्ञानाविकलकारणभावापन्नमेव वर्तत इति ।।३७४।। ___ अथास्य सम्यग्रूपतामेव भावयति;जमिणं असप्पवित्तीए दवओ संगयंपि नियमेण । होति फलंग असुहाणुबंधवोच्छेयभावाओ ।।३७५।। यस्मादिदं सम्यगज्ञानमसत्प्रवृत्त्या प्रबलावश्यवेद्यचारित्रमोहोदयादिन्द्रियानुकूलाचरणरु पया द्रव्यतो मनोरुचिविकलत्वेनाप्रधानभावात् संगतमपि संयोगभागपि नियमेनैकान्तत एव भवति फलांगं मोक्षलक्षणफलनिमितम् । कुत इत्याह-अशुभानां ज्ञानावरणादिपापप्रकृतीनामनुबन्ध उत्तरोत्तरवृद्धिरूपस्तस्य व्यवच्छेदखुटिस्तस्य भावात् ॥३७५।। - अशुभानुबन्धमेवाश्रित्याह ;एसो य एत्थ पावो मूलं भवपायवस्त विनेओ । एयम्मि य वोच्छिन्ने वोच्छिन्नो चेव एसो त्ति ॥३७६।। एष चाशुभानुबन्धः पुनरत्र सम्यग्रूपज्ञानादशुभानुबंधव्यवच्छेदे प्रस्तुते पापोऽत्यन्ताधमो मूलमादिकारणं भवपादपस्य संसारविषवृक्षस्य नरकादिदुःखफलाकुलस्य विज्ञेयः । एतस्मिश्चाशुभानुबन्धे व्यवच्छिन्ने सम्यग्ज्ञानतो व्यवच्छिन्नश्चंवोपरत एवैष भवपादप इति । विपर्यासजलसिच्यमानमूला एव हि क्लेशपादपा दुःखलक्षणाय फलाय कल्पन्ते । ॥४३९॥
SR No.600269
Book TitleUpdeshpad Mahagranth Satik Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1991
Total Pages448
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy