________________
कुल
'पदेशपदः न्धकस्यायं व्यवहारेण तात्त्विक," इत्यादि । इति हृदि समाधाय सूत्रकारेणोक्तं प्राय इति । ततो ये प्रधाना सूत्रयोगा । महाग्रंथः अविरतादीनां ते निश्चयतो व्यवहारतश्च तत्त्वरूपा एव । ये तु सद्बोधहेतुभूतास्ते व्यवहारेण तात्त्विका इति ॥३७२।।
भासत्व
स्थानादि कुत एतदेवमिति चेदुच्यते;-- ..
विसयपडिहासमित्तं बालस्सेवक्खरयणविसयंति । वयणा इमेसु णाणं सध्वत्थण्णाणमो यं ॥३७३।। ।४३८11 विषयप्रतिभासमात्रम्-इह स्पर्शनरसघ्राणचक्षुःश्रोत्राणीन्द्रियाणि, स्पर्शरसगन्धरूपशब्दास्तेषामर्थाः, ततो विषय
स्येन्द्रियगोचरस्य प्रतिभासोऽवबोधः स एव केवलस्तद्गतगुणदोषविमर्शविकलो विषयप्रतिभासमात्रं बालस्येव शिशोरिव । अक्षरत्नविषयं अक्षश्चन्दनको रत्नं पद्मरागादिः, अक्षरत्ने, ते विषयो यस्य तत्तथाविधज्ञानमित्युत्तरेण योगः । इतिः पूरणार्थः । वचनाद् द्रव्यश्रुतयोगरूपात् । एष्वभिन्नग्रन्थिषु जनेषु ज्ञानमवबोधः शब्दार्थमात्रगोचरमेव तद्गतोहापोहशून्यं सर्वत्र जीवादौ विषये ; किमित्याह-अज्ञान मेव ज्ञानफलस्य हेयोपादेयविभागस्य तात्त्विकस्याभावाज्ज्ञेयमिति ।।३७३॥
अत्रैव व्यतिरेकमाह ;-- | भिन्ने तु इतो गाणं जक्खरयणेसु तग्गयं चेव । पडिबंधम्मिवि सद्धादिभावतो सम्मरूवं तु ॥३७४।।
॥४३८॥ भिन्ने तु विघटिते तु पुनर्ग्रन्थो। इतो ग्रन्थिभेदादनन्तरमेव ज्ञानं विशदविमर्शवशोपलब्धविशुद्धतत्त्वतया शुद्धबोधरूपं विज़म्भते । दृष्टान्तमाह-यथाक्षरत्नयोविषये तस्यैव शिशोरशिशुभावप्राप्तौ तद्गतं चेवाक्षरत्नविभागगोचरमेव । ननु, भिन्नग्रन्थीनां केषांचिद् माषतुषादिसदृशानां न किञ्चिद् ज्ञानविज़म्भणमुपलभ्यत इत्याशंक्याह-प्रतिबन्धेऽपि तथाविध