________________
।।४३७ ।। ८६
O
कस्मिन्नित्याह-भिन्नेऽपूर्वकरणवज्रसूच्या सम्पन्नच्छिद्रे कृते ग्रन्थौ घनरागद्वेषपरिणामरूपे । अन्यथा ग्रन्थिभेदाभावे सति नो नैव, महामोहसन्निपातोपहतत्वात् । यतो भणितमागमे ||३७० ॥
वेहपरिणामरहिते ण गुणाहाणमिह होति रग्रणम्मि । जह तह सुत्ताहाणं न भावतोऽभिन्नगंठिम्मि ।। ३७१।।
वेधपरिणामरहितेऽपातितमध्यच्छिद्रे तथाविधप्रयोगाद् न नैव गुणाधानसूत्रतन्तुप्रवेश इह भवति रत्ने पद्मरागादौ यथेति दृष्टान्तार्थः तथा सूत्राधानं पारमतगदितागमन्यासः, न नैव भावतस्तत्त्ववृत्त्याऽभिन्नग्रन्थो जीवे, तत्राद्यापि सूत्राधानस्य सद्बोधसम्पादक सामर्थ्याभावात् तत्सम्पादनेन च तस्याविकलस्वरूपलाभसम्भवादिति ॥ ३७१।। अमुमेवार्थं भावयति ; --
जह तम्मि तेण जोगा बज्झा संतोषि तत्तत्रो णेए । तह दम्बसुसजोगा पायं जीवाण विष्णेया ॥ ३७२ ॥
यथा तस्मिन्नेत्र वेधपरिणामरहिते तेन गुणेन योगाः सम्बन्धा बाह्या मध्यप्रबेशविरहाद् बहीरूपास्तत्प्रयोजनाथिभिः पुंभिः सम्पद्यमानाः सन्तोऽपि तत्त्वतः परमार्थरूपतया न नैव एते सूत्रयोगा वर्त्तन्ते, जतुप्रभृतिना श्लेषद्रव्येण गुणसंयोजने रत्नस्य च्छायाविनाशात् तदन्तरेण च तस्य तत्रावस्थानस्थैर्याभावादिति । तथा द्रव्यसूत्रयोगाः प्रायो बाहुल्येन जीवानां विज्ञेयाः । इह द्रव्यशब्दः कारणपर्यायोऽप्रधानपर्यायश्च शास्त्रेषु प्रयुज्यते । तत्र यो सन्निहितग्रन्थिभेदानां दूरभव्यादीनामप्रधानः सूत्रयोगः स एकान्तत एव सद्बोधानाधायकतया तत्त्वपर्यालोचने न किश्विदेव । यस्स्वपुनर्बन्धकमार्ग्याभिमुखमार्गपतितानाम्, स शुद्धबोधलाभावन्ध्यहेतुत्वाद् व्यवहारेण तात्त्विक:, यथोक्तं योगबिन्दौ - - "अपुन -
।। ४३७ ।।