________________
||७६७
ख्यायते ;-इन्द्रपुरे नगरे इन्द्रदत्तो नाम राजा । तस्य च द्वाविंशतिः सुताः द्वाविंशतो पल्नीषु । सुरेन्द्रदत्तश्च त्रयोविशोऽमात्यपुत्रपुत्रीतनयः । मथुरायां जितशत्रू राजाऽभूत् । तेन च स्वयंवरो विवाहविशेषो निर्वत्तेः पुत्रिकाया वितीर्णः। तुः पूर्ववत् ॥९३६।। अग्निककः पर्वतको बहुली तथा सागरश्च बोद्धव्यः । एते एकदिवसजाताः सह तत्र सुरेन्द्रदत्तेन १९३७।। इन्द्रपुरस्वामिनः 'पुत्रवान्' इति कृत्वा मथुराधिपेन ततस्तदनन्तरं दुहिता प्रस्थापिता। इतिः प्राग्वत् । तया च तत्रागतया 'सयंवर'त्ति स्वयंवरमण्डपे राधावेधेन. सुरेन्द्रदत्तकृतेन रञ्जितया वरमाला प्रक्षिप्ता कण्ठे सुरेन्द्रदत्तस्येति गम्यते ।।९३८॥ द्वाविंशत्या श्रीमालिपुत्रप्रभृतिकया न विद्धा राधा, त्रयोविंशतितमेन सुरेन्द्रदत्तानाम्ना अग्निकादिज| यात सहजातंचटुलचेटकचतुष्कंपरिभावदभ्यासाद् राधावेधस्य पुनःपुनरनुशीलनाद् विद्धा राधा । तैर्वाविंशत्या राजपुत्रः । परिपंथिकैरपि सद्भिः ।।९३९॥ स सुरेन्द्रदत्तस्तजयेन चेटकजयेन सदा सर्वकालमुत्खातासिपुरुषद्वयभीतितः समुदगीर्णखड्गपुरुषद्वयभयात्, गुरुणा कलाचार्येण तथा ग्राहित: शिक्षितो राधावेधः । इतिः पूर्ववत् । भित्त्वा यथाऽष्ट चक्राणि ततो विद्धा राधा ॥९४०।। अथोपनयनमाह-राजसुतः सुरेन्द्रदत्तनामा इह साधुः, अग्निककादयः कषायाः क्रोधादयश्चत्वारः, पुरुषौ तु खड्गव्यग्रकरौ रागद्वैषौ,क्षोभे व्रतात् परिभ्रंशे मरणमसकृद् भवावर्ते ॥९४१।। राजसूतास्तु परि
पहा. द्वाविंशतिः, शेषाः परिषल्लोका उपसर्गादयो ज्ञेयाः । अत्र व्यतिकरे इहादिशब्द उपसर्गभेदानामेव संग्रहार्थः । ग्राहणं Fol राधावेधस्य शिक्षा ग्रहणासेवनारूपा बोद्धव्याः । कर्माष्टकभेदतश्चक्राष्टकभेदतुल्यात् सिद्धिलाभा निर्वृतिकन्यकालाभकल्पः । सम्पद्यते । तुः पूर्ववत् ॥९४२॥ अधुना व्यतिरेकमाह;