SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ ॥७६५।। एवं जिणोवएसो उचियाविक्खाए चित्तरूवोत्ति । अपमायसारयाएवि तो सविसय मो मुणेयवो ।।९३३।। एवं गुरुकर्मणां प्रव्रज्याप्रत्तिपत्त्यसहिष्णुत्वे सति जिनोपदेशः सर्वज्ञप्रज्ञापनारूपः उचितापेक्षया यो यत्प्रमाणस्योपदेशस्य योग्यस्तपेक्षया चित्ररूपा नानारूपतया प्रवर्तते । इति प्राग्वत् । अप्रमादसारतायामपि अप्रमाद: सारः करणीयतया गत्र जिनोपदेशे स तथा तस्य भावस्तत्ता तस्यामपि; तत्तस्मात् सविषयः सगोचरो, 'मो' इति पूर्ववत्, मुणितव्यः। यदा हि जिनोपदेशचित्ररूपतया व्यवस्थितो प्रमादसारोऽपि, तदाऽपुनर्बन्धकादीन्निर्वाणमार्गप्रज्ञापनायोग्यानधिकृत्य केचित्सामान्यदेशनायाः, केचित् सम्यग दृष्टिगुणयोग्यप्रज्ञापनायाः, केचिद्देशविरतिगुणस्थानकाहप्ररूपणायाः, केचिनिधूतचारित्रमोहमालिन्या अप्रमत्ततारूपप्रव्रज्यादेशनाया योग्या इति नाविषयाऽप्रमत्तताप्रज्ञापना इति ।।९३३॥ अधुना स्वकर्मगोरवदोषं परिहृत्य जिनोपदेशस्य दुष्करत्वादिकथनद्वारेणावधीरयतामाशातनाविधायिनां तदपरिज्ञानदोषमाह ;-- गंभीरमिणं बाला तब्भत्ता म्हात्ति तह कयत्थंता । तह चेव तु मण्णंता अवमण्णंता ण याणंति ॥९३४।। . गम्भीरं दुरवगाहमिदं जिनवचनं बाला जडधियः, तस्य जिनवचनस्य भक्ता आराधकास्तद्भक्ताः किल वयमिति परिभावयन्तोऽपि; तथा, दुष्करत्वादिदोषोद्भावनप्रकारेण कदर्थयन्ता विराधयन्तः सन्तस्तमेव जिनोपदेशं मान्यमानाः स्वाभिप्रायेण श्रद्दधानाः, तथाऽवमन्यमाना निर्विषयत्वकथनेनाशातयन्तो न जानन्ति नावगच्छन्ति परमार्थं जिनवचनस्य यथाशक्त्यानुरूपप्रवृत्त्या जिनवचनमिदमाराधनीयं भवतीति ।।९३४।। साम्प्रतं साधुशब्दप्रवृत्तिनिमित्तस्य सद्भावाजिनवचनदुष्करत्वदोषं परिहरन्नाह; ॥७६५॥
SR No.600269
Book TitleUpdeshpad Mahagranth Satik Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1991
Total Pages448
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy