SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ । ७६३।। मूर्खः सुधियः सुधीभिः समानशीलव्यसनेषु संख्यम् ||१|| ” कालेन तु गच्छता विश्रम्भो विश्वासः समजनिश्रेष्ठि सूना२छात्रे । ततश्च मायाप्रयोगः प्रागेव राजार्पिततन्माणिक्यस्य तदाभरणमध्ये तस्याजानतो निक्षेपलक्षणः कृतस्तेन । इति प्रागवत् ।।९२७ ।। प्रवत्तितश्च पुरमध्ये प्रवादा, यथा-नष्टं राजाभरणम् । पटहको निष्कासितो, यथा-कथयतु येन दृष्टं श्रुतं वा तदिति । ततः केनाप्यशिष्टमिति कृत्वा 'पउरघर'त्ति पौरंग हेषु प्रत्येकं निभालयितुमारब्धेषु लाभे श्रेष्ठितरत्नकरंडिकामध्ये निक्षिप्तस्य राज्ञो माणिक्यस्यावाप्तौ जातायां स दण्डपाशिकलाकेन हन्तुमारब्धः । भणितं च यक्षेण माहन मा घातयतैनं प्रायश्चित्तमापन्नमिदमस्य, शुद्धिश्चास्य परिभाव्य करिष्यते । ततो बहु भूरि भयमस्य जज्ञे । न ज्ञायते केनापि प्रकारेण शुद्धिर्भविष्यति । ततः श्रेष्ठिसुतेन परिभावितं यथैवं राजमाणिक्यापहारद्वारेण या दोषम्भावना तामपेक्ष्याsदोषोऽहं वर्त्ते, तथापि किं करोमीत्येवंलक्षणेन प्रकारेण || ९२८ ॥ यक्षाभ्यर्थना तेन कृता, विज्ञापय ममार्थं मन्निमित्तं तं नृपं राजानं यथा— सुदण्डेन सुकुमारेण केनचिद्दण्डेन निगृह्य मां मुश्वतेति । ततो यक्षेण तत्प्रेरणा कृता, यथा--शिक्ष्यसे शरीरनिग्रहमन्तरेण यदन्यत् ते प्रायश्चित्तम् अहं दापयिष्यामि तत् कर्तुमिति । तेनाभाणि-बाढमिति । एवं परिणामो लब्धस्तस्यानेन । तदनुविज्ञप्तिः कृता । राज्ञा चोचे – तैलपात्री भृतोभयकरगृहीता नगरमध्ये भ्रमणीया, यदि पुनस्तत्तैलबिन्दुरेकोऽपि पतति तदा तस्य निश्चितो वधो विधेय इति ॥ ९२९ ॥ 'संगच्छण 'त्ति अभ्युपगमस्तेन जीवितार्थिनाकृतो, यथा -- अहं यथाशक्त्यमुमर्थं साधयिष्यामि । एवं प्रतिपन्ने खड्गधरास्तस्य चतसृsafप दिक्षु निरूपिताः, यथा -- अयमस्मिन्नर्थे प्रमादं करोति तदाऽतीव निग्रहणीय इति । ततस्तस्यास्तैलभृतायाः पात्र्या ।।७६३ ।।
SR No.600269
Book TitleUpdeshpad Mahagranth Satik Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1991
Total Pages448
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy