________________
उपदेशपद महाग्रंथ:
।।७६२ ।। ५
स्वर्थं पुनर्दुर्देयं मन्यते । ततः सुगर्त्यर्थिनां निरूपितनीत्या हिसैव कर्तुमुचिता, न पुनरन्यो धर्मो दानादिरिति ।।९२४ ।। अप्रमादसारतया अप्रमादः प्रमादाभावः सारो यत्र तत्तथा तद्भावस्तत्ता तया निर्विषयं निर्गोचरं, तथेति समुच्चये, जिनोपदेशमपि सर्वज्ञप्रज्ञापनामपि मन्यते, किं पुनः प्रज्ञापकान्तरोपदिष्टमर्थमित्यपिशब्दार्थ । कथमिवेत्याह- तक्षकफणरत्नगतं तक्षकस्य महानागस्य फणारत्नं तक्षकफणरत्नं तद्गतं करणीयत्वेन तद्विषयं शिरसोऽतिः पीडास्तस्याः शमने उपदेशः शिरोत्तिशमनेापदेशस्तमिव । यथा केनचिच्छिरः पीडाकरालितेन कश्चिद् भणितो यथा महती मम शिरःपीडा समु
ता वर्त्तते, किं क्रियतामिति ? तेन चोक्तम् - तक्षकफणरत्नालङ्कारे। गले बध्यतां येन सद्य एव पीडोपशमः सम्पद्यते । यथासौ दुष्करत्वेन निर्विषय उपदेशः, तथायमप्रमत्तोपदेशः जिनेाक्तो निर्विषय एव ममाभासत इति परिभावयति स श्रेष्ठसूनुः ।। ९२५ ।। ततः परिभावितं राज्ञा नैष प्रदीपनकवदुपेक्षितुं युक्तः । इति तस्योपशमनिमित्तं जैनधर्मप्रतिबोधनार्थ यक्षो नाम च्छात्रो विद्यार्थितया गुरुणा सह भ्राम्यति आतपनिवारणार्थं छत्रवान् समाना सम्यग भावेन कृत्वा दृष्टिस्तत्त्वश्रद्धानमस्येति समानदृष्टिरित्यर्थः इत्यस्मात्कारणान्निपुणो जीवादिषु पदार्थेषु कृतो राज्ञैव । समर्पितं माणिवयं निजमुद्रारत्नरूपम् । अनुस्वारलोपः प्राकृतत्वात् । स यक्षच्छात्र उपलब्धराजाभिप्रायः सम्रागतो राजसमीपाद् दूरीभूतस्तदनन्तरम् ॥९२६ ।। श्रेष्ठितसमीपं गत्वा बभाण' - अन्या जैनमतवासितांतःकरणः कोऽपि राजाऽऽसन्नो वर्त्तते, अहं पुनः प्रतिबोधको लग्नजैनदर्शनग्र होत्तारकारी, कसमदृष्टिर्नृपेण सह वर्त्ते इति कश्चिन्मयि विश्रम्भरसः समस्ति, समानशी - लव्यसनयेारेव विश्रम्भरससम्भवात् । यदवाचि – “मृगा मृगैः संगणनुव्रजन्ति गावश्च गोभिस्तुरगास्तुरंगैः । मूर्खाश्र्व
तलपात्री*धारकज्ञा
तम्
।।७६२।।