SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ ॥७६१॥ णटुं रायाहरणं पउहगसिटुंति पउरघरलामे । माहण पच्छित्तं बहुभयमेवमदोस तहवित्ति ॥९२८॥ जक्खब्भत्थण विण्णवण ममत्थे तं शिवं सुवंडेण । तच्चोयण परिणामो विष्णत्ती तइलपत्ति वहो ॥९२९।। संगच्छण जहसत्ती खग्गषरक्खेव छणणिरूवणया । तल्लिच्छ जत्तनयणं चोयणमेवंति पडिवत्ती ॥९३०।। एवमणंताणं इह भीया मरणाइयाण दुवखाणं । सेवंति अप्पमायं साहुं मोक्खत्थमुजता ॥९३१।। __ श्राद्धः सर्गज्ञदर्शनश्रद्धालुः प्राज्ञः स्वभावत एव परोपकारोपायप्रवीण: क्वचिद् नगरे जितशत्रुनामा राजाऽभूत् । प्रायो बाहुल्येन, तेन राज्ञा दानसन्मानारिभिरुपायैः सन्तोषमानीयोपशामित उपशममानीतो जिनशासनं प्रति सानुरागो विहित इत्यर्थः, लोकोऽमात्यवेष्ठिप्रभृतिको निजनगरे । नवरं केवलं कश्चित् श्रेष्ठिपुत्रो न शकित उपशामयितुम् । कीदृशः सन्नित्याह-कर्मगुरुर्बहलमिथ्यात्वतमः पटलसमाच्छादितशुद्धबोधसम्पादकपरिणाम इति ॥९२३॥ सो इत्यादि । सर, श्रेष्ठिपुत्रो लोकग्रहात् संसारमोचकनामकपाखण्डिकसंसर्गलग्नभ्रमाद् मन्यते हिंसामपि प्राणव्यपरोपणरूपां, सर्वेषां तदन्येषामास्तिकानामेकान्ततोऽनभिमतां तथाविधां दुःखितसत्त्वगोचरां न नैवं दुष्टां दारुणपरिणामां, किं तु कल्याणावहामेव । इति प्राग्वत् । कुत इत्याह-हिंसाणं सुहभावा' इति हिंस्यानां हिंसनीयानां हिंस्राणां च हिंसकानां सुखभा- X॥७६१।। वाच्छुभभावाच । तत्र हिंस्यानां हिंसाकालप्रवृत्तपीडानुभवेन प्राग्भवोपात्तासवेंदनीयनिर्जरणाद् भवान्तरे सुगतिलाभेन सुखभावः । अन्येषां च दुरन्तदुःखनिम्नगातस्तदुत्तारणकरणेन परोपकारसम्भवाच्छुभस्य सुकृतलक्षणस्य लाभः । इति निरवद्यमेव दुःखितस्य व्यपरोपणम् । तथा द्विधापि द्वाभ्यामपि हेतुभ्यां क्लेशोपार्जनमूर्छात्यागदुष्करत्वलक्षणाभ्यामर्थं
SR No.600269
Book TitleUpdeshpad Mahagranth Satik Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1991
Total Pages448
LanguageSanskrit
ClassificationManuscript
File Size8 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy