SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ लोकोत्तरमार्गमवतार्यमाणा अपि वराकाः कृपास्पदतामागताः प्रयो बाहुल्येन यत्र तत्रैव बहुलोकपरिगृहीते कुतीर्थगम-| | नादौ धर्मकल्पनाकारिणः, एवं पूर्वोक्तमूढलोकवत् । इतिः पूरणे द्रष्टव्यः ॥९१७।। एतदेव दृष्टान्तेन भावयति; एएणं चिय कोई राया केणावि सूरिणा सम्मं । णाएणमेवदिट्ठी थिरीकओ सुद्धधम्मम्मि ॥९१८॥ ॥७५९॥ एतेनैव यथा रत्नार्थिनः स्तोका इत्यनेन कश्चिद् राजा केनापि सूरिणा सम्यग यथावद् ज्ञातेन दृष्टान्तेन, एतद्दृष्टि । बहुजनपरिगहीतो धर्मः प्रमाणमित्येवं पश्यन्, स्थिरीकृतः शुद्धधर्म स्तोकतरविवेकिलोकपरिगृहीते।।९१८ एतदेव भावयति;नयरं पवेसिऊणं सागेंधणधण्णमाइठाणाई। बहुगाइं दंसिऊणं रयणावणदंसणेणं तु ॥९१९॥ . व नगरं प्रतीतरूपमेव प्रवेश्यावतार्य शाकेन्धनधनधान्यादिस्थानानि बहुकानि प्रभूतानि दर्शयित्वा रत्नापणदर्शनेन तु lol अतिस्तोक रत्नवाणिज्य हट्टदर्शनेनैव-यथा हि महाराज ! अत्र तव नगरेऽतिबहूनि शाकेन्धनादिव्यवहारस्थानानि, अतिस्तोकानि रत्नवाणिज्यस्थानानि, तथैव शुद्धधर्मग्राहिणोऽत्र नगरस्थानीये जने अतिस्तोका इतरे त्वतिभूरय इति ॥९१९॥ यद्यवं ज्वरहरतक्षकचूडारत्नालङ्कारवद् दुष्करः शुद्धधर्मस्तत्कि तस्योपदेशेन ? इत्याशंक्याह;-- णय दुक्करं तु अहिगारिणो इहं अहिगयं अणुदाणं । भवदुक्खभया गाणी मोक्खत्थी कि ण करेइ ? ॥९२०।। नच नैव दुष्करं दुरनुष्ठेयं, तुरेकारार्थः, अधिकारिणो मोक्षं प्रति बद्धस्पृहस्येहाधिकृतं, शुद्धधर्माराधनारूपमनुष्ठानं Pal सर्वसावधविरमणरूपम् । कुतः, यतः भवदुःखभयाजातिजरामरणादिसंसारोद्वेगाद्, ज्ञानी निश्चितहेयोपादेयविभागो श्रीक्षार्थं किं न करोति? अपि तु शक्त्यनुरूपं तत्साधकतया निश्चितं सर्वमपि ॥९२०॥ एतदेव भावयति; ॥७५९॥
SR No.600269
Book TitleUpdeshpad Mahagranth Satik Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1991
Total Pages448
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy