________________
॥७५४॥
उपदेशपर्दा मत्यां पुरि ब्राह्मणदुहिता काचित् । तस्याश्च सखिका भूता । तयोश्च कालेन भिन्नयो: स्थानयाविवाहाद् भेद सम्पन्नः। कर्णदुर्बल. महाग्रंथ
इति प्राग्वत् । अन्यदा च ब्राह्मणदुहितुः सुस्थासुस्थे सौख्ये दौख्ये चेत्यर्थः सखीगोचरे चिन्ताऽभूत् ततः स्वयमेव नृपोदाप्राघुर्णगमने प्राघुर्णकभावेन तदन्ते गमने कृते विषादस्तस्यास्तया दृष्टि इति ॥९०२॥ ततः पृच्छा विषादनिमित्तविषयाश
हरणम्तया कृता। सख्या च साधनमारब्धं, यथा--पापाऽहं यतो दुर्भगा पत्युवेर्ते इति । तया चोक्तं-मा कुरु खेदं, करेमि । ते तव पतिं गाम वाहम् । ततो मूलिकादानं कृत्वा गमनं निजस्थाने ब्राह्मणपुत्र्याऽकारि । ततस्तया सख्याऽप्रीत्या | यथाऽहं चिरकालमनेनापमानितेत्यभिप्रायेण प्रयोगश्चूर्णादिव्यापाररूपः तया मूलिकायाः पत्यौ कृतः ।।९०३।। अचिन्त्यो हि मणिमन्त्यौषधीनां प्रभाव इति गोत्वं भर्तुः समजनि । तं च तथाविधमालोक्य सा विद्राणा विषण्णा, यथा--कथमयं | पुनः पुमान् भविष्यतीति । ततस्तया बहिश्वारिचरणार्थ गवां मध्ये तस्य मीलनं कृतम् । स्वयं च पृष्ठलग्ना भ्राम्यतीति । अन्यदा चानेन केनचिद् विद्याधरयुग्मेन वटशाखावलम्बिना दर्शनं तस्य कृतम् । तेन च तस्मिन् कथनं सहचर्याः कृतं विद्याधरेण, यथैष मनुजः सन् वृषभतया वृत्तो वर्तते । ततस्तया पृष्टः कथमयं पुनरपि ममुजो भविष्यतीति । स प्राह --मूलया। विद्याधरी--इयं मूला कुत्र तिष्ठतीति ॥९०४॥ विद्याधरः--न्यग्रोधतलेऽस्यैव पादपस्य मूले । इत्युक्त्वा
॥७५४॥ विद्याधरयुग्मं तिरोऽभूत् । अस्य च समग्रस्यापि वृत्तान्तस्य गोपत्न्याधःस्थितया श्रवणमकारि । तदनुगृहगमनादेनिवर्त्तना कृता । चिन्ता-कथमियं मूला प्राप्स्यते ? । ततः सर्वचरणं कारयितुमारब्धोऽसौ तया । इत्येवं प्राप्ता मूला। तद्भक्षणाच्च मनुजः समजनीति । एवमनेन न्यायेनेह गम्भीरतत्त्वविचारे प्रस्तुते सत्येषा धर्ममूला विपर्यस्तज्ञानरूपपशुभाव